महाभारतम्-06-भीष्मपर्व-028
पठन सेटिंग्स
← भीष्मपर्व-027 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-028 वेदव्यासः |
भीष्मपर्व-029 → |
|
अष्टाचिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 4 ।।
श्रीभगवानुवाच। | 6-28-1x |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ।। | 6-28-1a 6-28-1b |
एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः । स कालेनेह महता योगो नष्टः परंतप ।। | 6-28-2a 6-28-2b |
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।। | 6-28-3a 6-28-3b |
अर्जुन उवाच। | 6-28-4x |
अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।। | 6-28-4a 6-28-4b |
श्रीभगवानुवाच। | 6-28-5x |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ।। | 6-28-5a 6-28-5b |
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ।। | 6-28-6a 6-28-6b |
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।। | 6-28-7a 6-28-7b |
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवामि युगे युगे ।। | 6-28-8a 6-28-8b |
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्वक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ।। | 6-28-9a 6-28-9b |
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ।। | 6-28-10a 6-28-10b |
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। | 6-28-11a 6-28-11b |
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।। | 6-28-12a 6-28-12b |
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ।। | 6-28-13a 6-28-13b |
न मां कर्माणि लिम्पन्तिक न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ।। | 6-28-14a 6-28-14b |
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ।। | 6-28-15a 6-28-15b |
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।। | 6-28-16a 6-28-16b |
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।। | 6-28-17a 6-28-17b |
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। | 6-28-18a 6-28-18b |
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।। | 6-28-19a 6-28-19b |
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ।। | 6-28-20a 6-28-20b |
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ।। | 6-28-21a 6-28-21b |
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ।। | 6-28-22a 6-28-22b |
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ।। | 6-28-23a 6-28-23b |
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ।। | 6-28-24a 6-28-24b |
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ।। | 6-28-25a 6-28-25b |
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ।। | 6-28-26a 6-28-26b |
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ।। | 6-28-27a 6-28-27b |
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ।। | 6-28-28a 6-28-28b |
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ।। | 6-28-29a 6-28-29b |
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।। | 6-28-30a 6-28-30b |
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ।। | 6-28-31a 6-28-31b |
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ।। | 6-28-32a 6-28-32b |
श्रेयान्द्रव्यमयाद्यजाज्ज्ञानयज्ञः परंतप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।। | 6-28-33a 6-28-33b |
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। | 6-28-34a 6-28-34b |
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।। | 6-28-35a 6-28-35b |
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ।। | 6-28-36a 6-28-36b |
यथैधांसि समिद्धोऽग्निर्भस्मासात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते यथा ।। | 6-28-37a 6-28-37b |
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ।। | 6-28-38a 6-28-38b |
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।। | 6-28-39a 6-28-39b |
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। | 6-28-40a 6-28-40b |
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ।। | 6-28-41a 6-28-41b |
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ।। | 6-28-42a 6-28-42b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टविंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशस्त्रे श्रीकृष्णार्जुनसंवादे यज्ञविभागयोगोनाम चतुर्थोऽध्यायः ।। |
6-28-39 मत्परः संयतेन्द्रियः इति माध्वपाठः ।। 6-28-* ज्ञानयोगोनाम इति माध्वपाठः ।।
भीष्मपर्व-027 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-029 |