महाभारतम्-06-भीष्मपर्व-101

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-100 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-101
वेदव्यासः
भीष्मपर्व-102 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

अभिमन्युनाऽलम्बुसस्य पराजयः ।। 1 ।।

धृतराष्ट्र उवाच। 6-101-1x
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ।।
6-101-1a
6-101-1b
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा।
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ।।
6-101-2a
6-101-2b
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे ।
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ।।
6-101-3a
6-101-3b
नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ।।
6-101-4a
6-101-4b
सञ्जय उवाच। 6-101-5x
हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम्।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ।।
6-101-5a
6-101-5b
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्।।
6-101-6a
6-101-6b
तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः।
अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ।।
6-101-7a
6-101-7b
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।।
6-101-8a
6-101-8b
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ।।
6-101-9a
6-101-9b
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ।।
6-101-10a
6-101-10b
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ।।
6-101-11a
6-101-11b
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः।
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ।।
6-101-12a
6-101-12b
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ।।
6-101-13a
6-101-13b
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ।।
6-101-14a
6-101-14b
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ।।
6-101-15a
6-101-15b
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।।
6-101-16a
6-101-16b
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ।।
6-101-17a
6-101-17b
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ।।
6-101-18a
6-101-18b
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।।
6-101-19a
6-101-19b
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ।।
6-101-20a
6-101-20b
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ।।
6-101-21a
6-101-21b
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ।।
6-101-22a
6-101-22b
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ।।
6-101-23a
6-101-23b
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ।।
6-101-24a
6-101-24b
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।।
6-101-25a
6-101-25b
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।।
6-101-26a
6-101-26b
छादयामास समरे शरैः सन्नतपर्वभिः।
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ।।
6-101-27a
6-101-27b
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः।
हतमायं ततो रक्षो वध्यमानं च सायकैः ।।
6-101-28a
6-101-28b
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्।
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।।
6-101-29a
6-101-29b
आर्जुनिः समरे सैन्यं तावकं संममर्द ह।
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ।।
6-101-30a
6-101-30b
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम्।
महता शरवर्षेण सौभद्रं पर्यवारयत् ।।
6-101-31a
6-101-31b
कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः ।
एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ।।
6-101-32a
6-101-32b
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ।।
6-101-33a
6-101-33b
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ।।
6-101-34a
6-101-34b
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ।।
6-101-35a
6-101-35b
तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ।।
6-101-36a
6-101-36b
ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ।।
6-101-37a
6-101-37b
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ।।
6-101-38a
6-101-38b
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ।।
6-101-39a
6-101-39b
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ।।
6-101-40a
6-101-40b
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ।।
6-101-41a
6-101-41b
शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् ।
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ।।
6-101-42a
6-101-42b
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ।।
6-101-43a
6-101-43b
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ।।
6-101-44a
6-101-44b
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ।।
6-101-45a
6-101-45b
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ।।
6-101-46a
6-101-46b
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ।।
6-101-47a
6-101-47b
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ।।
6-101-48a
6-101-48b
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ।।
6-101-49a
6-101-49b
अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ।।
6-101-50a
6-101-50b
पुनश्चैनं शरैर्घोरैश्छादयामास भारत।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ।।
6-101-51a
6-101-51b
सात्यकोऽपि महाराज शरजालं निहत्य तत्।
द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ।।
6-101-52a
6-101-52b
तापयामास च द्रौणिं शैनेयः परवारहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ।।
6-101-53a
6-101-53b
शराणां च सहस्रेण पुनरेव समुद्यतः ।
सात्यकिश्छादयामास ननाद च महाबलः ।।
6-101-54a
6-101-54b
दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ।।
6-101-55a
6-101-55b
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे ।
परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ।।
6-101-56a
6-101-56b
सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ।।
6-101-57a
6-101-57b
तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ।।
6-101-58a
6-101-58b
ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।
यथा बुधश्च शुक्रश्च महाराज नभस्तले ।।
6-101-59a
6-101-59b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ।।
भीष्मपर्व-100 पुटाग्रे अल्लिखितम्। भीष्मपर्व-102