महाभारतम्-06-भीष्मपर्व-051
दिखावट
← भीष्मपर्व-050 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-051 वेदव्यासः |
भीष्मपर्व-052 → |
|
भीष्मादिभिः प्रतिव्यूहरचना ।। 1 ।।
सञ्जय उवाच। | 6-51-1x |
क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव । रक्षमाणं महाघोरं पार्थेनामिततेजसा ।। | 6-51-1a 6-51-1b |
आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव । सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च ।। | 6-51-2a 6-51-2b |
दुःशाकसनादीन्भ्रातॄंश्च सर्वनेव च भारत । अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ।। | 6-51-3a 6-51-3b |
प्राहेदं वचनं काले हर्षयंस्तनयस्तव । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।। | 6-51-4a 6-51-4b |
एकैकशः समर्था हि यूयं सर्वे महारथाः । पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ।। | 6-51-5a 6-51-5b |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम् ।। | 6-51-6a 6-51-6b |
संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा । आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा ।। | 6-51-7a 6-51-7b |
शत्रुंजयेन सहितास्तथा दुःशासनेन च । विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ।। | 6-51-8a 6-51-8b |
चित्रसेनेन सहिताः सहिताः पारिभद्रकैः । भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ।। | 6-51-9a 6-51-9b |
ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष । अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम् ।। | 6-51-10a 6-51-10b |
भीष्मः सैन्येन महता समनन्तात्परिवारितः । ययौ प्रकर्षन्महतीं वाहिनीं सरराडिव ।। | 6-51-11a 6-51-11b |
तमन्वायान्महेष्वासो भारद्वाजः प्रतापवान् । कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते ।। | 6-51-12a 6-51-12b |
विदमर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि । सहिताः सर्वसैन्येन भीष्ममहावशोभिनम् ।। | 6-51-13a 6-51-13b |
गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः। शकुनिश्च स्वसैन्येन भीष्ममाहवशोभिनम् ।। | 6-51-14a 6-51-14b |
ततो दुर्योधनो राजा सहितः सर्वसोदरैः । अश्वातर्केर्विकर्णैश्च तथा चाम्बष्ठकोसलैः ।। | 6-51-15a 6-51-15b |
दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः । अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ।। | 6-51-16a 6-51-16b |
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः। विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ।। | 6-51-17a 6-51-17b |
सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः। श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः ।। | 6-51-18a 6-51-18b |
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः ।। | 6-51-19a 6-51-19b |
पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः। केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ।। | 6-51-20a 6-51-20b |
ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत। दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन् ।। | 6-51-21a 6-51-21b |
तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ।। | 6-51-22a 6-51-22b |
ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः। आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ।। | 6-51-23a 6-51-23b |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ।। | 6-51-24a 6-51-24b |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ।। | 6-51-25a 6-51-25b |
अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।। | 6-51-26a 6-51-26b |
काशिराजश्च शैब्यश्च शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।। | 6-51-27a 6-51-27b |
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः । सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे ।। | 6-51-28a 6-51-28b |
स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ।। | 6-51-29a 6-51-29b |
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् ।। | 6-51-30a 6-51-30b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे एकपञ्चाशोऽध्यायः ।। |
6-51-6 अपर्याप्तमपरिमेयम् ।। 6-51-20 अभिभवत्यभिभूः ।।
भीष्मपर्व-050 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-052 |