महाभारतम्-06-भीष्मपर्व-054

विकिस्रोतः तः
← भीष्मपर्व-053 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-054
वेदव्यासः
भीष्मपर्व-055 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

भीमसेनेन कलिङ्गादिवधः ।। 1 ।।

धृतराष्ट्र उवाच। 6-54-1x
मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ।।
6-54-1a
6-54-1b
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् ।
योधयामास समरे कलिङ्गः सह सेनया ।।
6-54-2a
6-54-2b
सञ्जय उवाच। 6-54-3x
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ।।
6-54-3a
6-54-3b
तामापतन्तीं महतीं कलिङ्गानां महाचमूम्।
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ।।
6-54-4a
6-54-4b
भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ।।
6-54-5a
6-54-5b
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ।।
6-54-6a
6-54-6b
रथैरनेकसाहस्रैः कलिङ्गानां नराधिप ।
अयुतेन गजानां च निषादैःक सह केतुमान् ।।
6-54-7a
6-54-7b
भिमसेनं रणे राजन्समन्तात्पर्यवारयत् ।
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ।।
6-54-8a
6-54-8b
अभ्यधावन्त समरे निषादान्सह राजभिः ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ।।
6-54-9a
6-54-9b
न प्राजानन्त योधाः स्वान्परस्परजिघांसया ।
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ।।
6-54-10a
6-54-10b
यथेन्द्रस्य महाराज महत्या दैत्यसेनया।
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ।।
6-54-11a
6-54-11b
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः।
अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ।।
6-54-12a
6-54-12b
महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् ।
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ।।
6-54-13a
6-54-13b
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः।
विमर्दः सुमहानासीदल्पानां बहुभिः सह ।।
6-54-14a
6-54-14b
कलिङ्गैः सह चैदीनां निषादैश्च विशांपते ।
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ।।
6-54-15a
6-54-15b
भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः।
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ।।
6-54-16a
6-54-16b
स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् ।
न चचाल रथोपस्थाद्भीमसेनो महाबलः ।।
6-54-17a
6-54-17b
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् ।
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ।।
6-54-18a
6-54-18b
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः।
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ।।
6-54-19a
6-54-19b
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः।
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ।।
6-54-20a
6-54-20b
अश्वाञ्जघान समरे भीमसेनस्य सायकैः।
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ।।
6-54-21a
6-54-21b
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः।
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ।।
6-54-22a
6-54-22b
ववर्ष शरवर्षाणि तपान्ते जलदो यथा।
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ।।
6-54-23a
6-54-23b
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्।
स तया निहतो राजन्कालिङ्गतनयो रथात् ।।
6-54-24a
6-54-24b
विरथः सह सूतेन जगाम धरणीतलम्।
कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ।।
6-54-25a
6-54-25b
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।
`अयुतेन गजानां च निषादैः परिवारितः।'
ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां ।।
6-54-26a
6-54-26b
6-54-26c
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् ।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ।।
6-54-27a
6-54-27b
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ।
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ।।
6-54-28a
6-54-28b
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ।।
6-54-29a
6-54-29b
तमापतन्तं वेगेन प्रेरितं निशितं शरम्।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।।
6-54-30a
6-54-30b
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ।
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ।।
6-54-31a
6-54-31b
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्।
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ।।
6-54-32a
6-54-32b
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना।
नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश ।।
6-54-33a
6-54-33b
भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः ।
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ।।
6-54-34a
6-54-34b
ननाद बलवन्नादं नादयानो नभस्तलम्।
न च तं ममृषे भीमः सिंहनादं महाहवे।।
6-54-35a
6-54-35b
ततः शब्देन महता विननाद महास्वनः।
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ।।
6-54-36a
6-54-36b
न भीमं समरे मेने मानुषं भरतर्षभ ।
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ।।
6-54-37a
6-54-37b
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् ।
आरुरोह ततो मध्यं नागराजस्य मारिष ।।
6-54-38a
6-54-38b
ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा ।
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ।।
6-54-39a
6-54-39b
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः।
गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ।।
6-54-40a
6-54-40b
छिन्नस्कन्धः स विनदन्पपात गजयूथपः।
आरुगणः सिन्धुवेगन सानुमानिव पर्वतः ।।
6-54-41a
6-54-41b
ततस्तस्मादप्लुत्य गजाद्भारत भारतः।
खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ।।
6-54-42a
6-54-42b
स चचार बहून्मार्गानभितः पातयन्गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ।।
6-54-43a
6-54-43b
अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः।
6-54-44a
6-54-44b
श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः।
छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः ।।
6-54-45a
6-54-45b
खङघ्गेकन शितधारेण संयुगे गजयोधिनाम्।
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः।।
6-54-46a
6-54-46b
संमाहयामास स तान्कालान्तकयमोपमः।
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ।।
6-54-47a
6-54-47b
सासिमुत्तमवेगेन विचरन्तं महारणे।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ।।
6-54-48a
6-54-48b
जघान रथिनश्चापि बलवान्रिपुमर्दनः।
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत।।
6-54-49a
6-54-49b
भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयामास पाण्डवः ।।
6-54-50a
6-54-50b
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।।
6-54-51a
6-54-51b
छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।
6-54-52a
6-54-52b
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्।
छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ।।
6-54-53a
6-54-53b
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः।
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ।।
6-54-54a
6-54-54b
तूणीरानथ यन्त्राणि धनूंषि च।
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ।।
6-54-55a
6-54-55b
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि ।
पततः पातितांश्चैव पश्यामः सह सादिभिः ।।
6-54-56a
6-54-56b
छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ।।
आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव ।।
6-54-57a
6-54-57b
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः ।
अश्वारोहवरांश्चैव पातयामास संयुगे ।।
6-54-58a
6-54-58b
तद्धोरमभवद्युद्धं तस्य तेषां च भारत।
खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः ।।
6-54-59a
6-54-59b
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः।
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ।।
6-54-60a
6-54-60b
तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे।
प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ।।
6-54-61a
6-54-61b
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ।
आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः ।।
6-54-62a
6-54-62b
पातयामास खङ्गेन सध्वजानपि पाण्डवः।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक ।।
6-54-63a
6-54-63b
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः ।
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ।।
6-54-64a
6-54-64b
खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्।
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ।।
6-54-65a
6-54-65b
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः।
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ।।
6-54-66a
6-54-66b
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्।
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ।।
6-54-67a
6-54-67b
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्।
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः ।
6-54-68a
6-54-68b
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ।
कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ।।
6-54-69a
6-54-69b
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः।
अथाशोकः समादाय रथं हेमपरिष्कृतम् ।।
6-54-70a
6-54-70b
भीमं संपादयामास रथेन रथसारथिः।
तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ।।
6-54-71a
6-54-71b
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् ।
ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ।।
6-54-72a
6-54-72b
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्।
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ।।
6-54-73a
6-54-73b
समाहतो महाराज कलिङ्गेन महात्मना ।
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ।।
6-54-74a
6-54-74b
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः।
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ।।
6-54-75a
6-54-75b
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ।।
6-54-76a
6-54-76b
ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ।।
6-54-77a
6-54-77b
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ।।
6-54-78a
6-54-78b
ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः ।
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ।।
6-54-79a
6-54-79b
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्।
गदामादाय तरसा संनिपत्य महाबलः ।।
6-54-80a
6-54-80b
भीमः सप्तशतान्वीराननयद्यमसादनम् ।
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ।।
6-54-81a
6-54-81b
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्।
एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ।।
6-54-82a
6-54-82b
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् ।
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ।।
6-54-83a
6-54-83b
विप्रजग्मुरनीकेषु मेघा वातहता इव।
मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः ।।
6-54-84a
6-54-84b
ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक ।
संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ।।
6-54-85a
6-54-85b
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ।
मोहश्चापि कलिङ्गानामाविवेश परंतप ।।
6-54-86a
6-54-86b
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ।
भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ।।
6-54-87a
6-54-87b
मार्गान्बहून्विचरता धावता च ततस्ततः।
मुहुरुत्पतता चैव संमोहः समपद्यत।।
6-54-88a
6-54-88b
भीमसेनभयत्रस्तं सैन्यं च समकम्पत।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ।।
6-54-89a
6-54-89b
त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ।।
6-54-90a
6-54-90b
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ।।
6-54-91a
6-54-91b
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ।।
6-54-92a
6-54-92b
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः।
महता मेघवर्णेन नागानीकेन पृष्ठतः।।
6-54-93a
6-54-93b
एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः।
भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः ।।
6-54-94a
6-54-94b
न हि पञ्चालराजस्य लोके कश्चन विद्यते।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ।।
6-54-95a
6-54-95b
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ।।
6-54-96a
6-54-96b
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ।।
6-54-97a
6-54-97b
स च पारावताश्वस्य रथे हेमपरिष्कृते।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ।
6-54-98a
6-54-98b
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ।।
6-54-99a
6-54-99b
तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ ।
6-54-100a
6-54-100b
स तत्र गत्वा शैनेयो जवेन जयतां वरः।
पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ।।
6-54-101a
6-54-101b
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ।।
6-54-102a
6-54-102b
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ।।
6-54-103a
6-54-103b
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्।
तां संततार दुस्तारां भीमसेनो महाबलः ।।
6-54-104a
6-54-104b
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप।
कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते ।।
6-54-105a
6-54-105b
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः ।।
6-54-106a
6-54-106b
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ।।
6-54-107a
6-54-107b
परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ।।
6-54-108a
6-54-108b
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।।
6-54-109a
6-54-109b
ततः शरसहस्रेण सन्निवार्य महारथान् ।
हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ।।
6-54-110a
6-54-110b
हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ।।
6-54-111a
6-54-111b
अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ।।
6-54-112a
6-54-112b
ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् ।
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ।।
6-54-113a
6-54-113b
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ।।
6-54-114a
6-54-114b
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ।।
6-54-115a
6-54-115b
भीमसेनस्ततो राजन्नपयाते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ।।
6-54-116a
6-54-116b
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत।
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ।।
6-54-117a
6-54-117b
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः।
पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम् ।।
6-54-118a
6-54-118b
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ।।
6-54-119a
6-54-119b
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ।।
6-54-120a
6-54-120b
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान ।
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ।।
6-54-121a
6-54-121b
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ।।
6-54-122a
6-54-122b
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ।
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम।
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ।।
6-54-123a
6-54-123b
6-54-123c
ततः स्वरथमास्थाय पुनरेव महारथः ।
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ।।
6-54-124a
6-54-124b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
द्वितीयदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ।।

[सम्पाद्यताम्]

6-54-34 भानुमन्तं कलिङ्गात्मजम् ।। 6-54-40 अन्तरायुधिनं गजारूढयोधम् ।। 6-54-43 आविद्धं भ्रामितम् ।। 6-54-47 कालान्तकयमोपमः प्रलयकालीननाशकयमतुल्यः ।। 6-54-53 महामात्रो हस्तिपकः ।। 6-54-54 कणपान् मुद्गरान् ।। 6-54-57 गात्रावरैर्गात्रैः पूर्वकायैः अवररधःकायैः ।। 6-54-59 खलीनानि अश्वास्यनिवेश्यनि अडिआलीती प्रसिद्धानि। कक्ष्या गजमध्यबन्धनम् ।। 6-54-70 अशोको विशोकः ।। 6-54-108 आनर्च्छुः आच्छादितवन्तः ।। 6-54-115 वातायमानैः इतस्ततो धावद्भिः ।।

भीष्मपर्व-053 पुटाग्रे अल्लिखितम्। भीष्मपर्व-055