महाभारतम्-06-भीष्मपर्व-059
दिखावट
← भीष्मपर्व-058 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-059 वेदव्यासः |
भीष्मपर्व-060 → |
|
स्वप्रतिज्ञां विहाय गृहीतचक्रेम कृष्णेन पादचारेम भीष्मं हन्तुमभियानम् ।। 1 ।। अर्जुनेन कृष्णस्य प्रतिनिवर्तनम् ।। 2 ।।
धृतराष्ट्र उवाच। | 6-59-1x |
प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे। क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ।। | 6-59-1a 6-59-1b |
भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत। पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ।। | 6-59-2a 6-59-2b |
स़ञ्जय उवाच। | 6-59-3x |
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत। पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ।। | 6-59-3a 6-59-3b |
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।। | 6-59-4a 6-59-4b |
अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् । महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ।। | 6-59-5a 6-59-5b |
प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् । अस्माकं पाण्डवैः सार्धमनायात्तव भारत ।। | 6-59-6a 6-59-6b |
घनुषां कूजतां तत्र तलानां चाभिहन्यताम्। महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ।। | 6-59-7a 6-59-7b |
तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव। स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ।। | 6-59-8a 6-59-8b |
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च। शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ।। | 6-59-9a 6-59-9b |
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः । व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ।। | 6-59-10a 6-59-10b |
हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः। प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ।। | 6-59-11a 6-59-11b |
प्रावर्तत महावेगा नदी रुधिरवाहिनी । मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ।। | 6-59-12a 6-59-12b |
वरश्वनरनागानां शरीरप्रभवा तदा। परलोकार्णवमुखी गृध्रगोमायुमोदिनी ।। | 6-59-13a 6-59-13b |
न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप। यथा तव सुतानां च पाण्डवानां च भारत ।। | 6-59-14a 6-59-14b |
नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः । गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ।। | 6-59-15a 6-59-15b |
विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष । शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ।। | 6-59-16a 6-59-16b |
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः । अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ।। | 6-59-17a 6-59-17b |
तात भ्रातः सखे बन्धो वयस्य मम मातुल । मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ।। | 6-59-18a 6-59-18b |
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ।। | 6-59-19a 6-59-19b |
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः । मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ।। | 6-59-20a 6-59-20b |
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः । जघान पाण्डवरथानादिश्य भारतर्षभ ।। | 6-59-21a 6-59-21b |
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् । अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ।। | 6-59-22a 6-59-22b |
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह। अनेकशतसाहस्रं समपश्यन्त लाघवात् ।। | 6-59-23a 6-59-23b |
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे । पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ।। | 6-59-24a 6-59-24b |
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ।। | 6-59-25a 6-59-25b |
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् । विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ।। | 6-59-26a 6-59-26b |
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् । व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ।। | 6-59-27a 6-59-27b |
अमानुषेण रूपेण चरन्तं पितरं तव। शलभा इव राजानः पतन्ति विधिचोदिताः ।। | 6-59-28a 6-59-28b |
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः । न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ।। | 6-59-29a 6-59-29b |
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः । भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ।। | 6-59-30a 6-59-30b |
गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् । द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ।। | 6-59-31a 6-59-31b |
नाराचेन सुमुक्तेन निजघान पिता तव। यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ।। | 6-59-32a 6-59-32b |
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते। एवं सा धर्मराजस्य वध्यमाना महाचमूः ।। | 6-59-33a 6-59-33b |
भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा। प्राकम्पत महासेना शरवर्षेण तापिता ।। | 6-59-34a 6-59-34b |
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः। यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ।। | 6-59-35a 6-59-35b |
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।। | 6-59-36a 6-59-36b |
अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरनागाश्वं पतितध्वजकूबरम् ।। | 6-59-37a 6-59-37b |
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।। | 6-59-38a 6-59-38b |
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ।। | 6-59-39a 6-59-39b |
विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत। तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ।। | 6-59-40a 6-59-40b |
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।। | 6-59-41a 6-59-41b |
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ।। | 6-59-42a 6-59-42b |
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे। यत्त्वया कथितं वीर पुरा राज्ञां समागमे । | 6-59-43a 6-59-43b |
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ।। | 6-59-44a 6-59-44b |
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ।। | 6-59-45a 6-59-45b |
द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले। दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ।। | 6-59-46a 6-59-46b |
भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव। एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ।। | 6-59-47a 6-59-47b |
नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् । पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ।। | 6-59-48a 6-59-48b |
सञ्जय उवाच। | 6-59-49x |
ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः। यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ।। | 6-59-49a 6-59-49b |
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे।। | 6-59-50a 6-59-50b |
ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः । धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ।। | 6-59-51a 6-59-51b |
क्षणेन स रथस्तस्य सहयः कसहसारथिः । शरवर्षेण महता संछन्नो न प्रकाशते ।। | 6-59-52a 6-59-52b |
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् । चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ।। | 6-59-53a 6-59-53b |
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ।। | 6-59-54a 6-59-54b |
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ।। | 6-59-55a 6-59-55b |
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।। | 6-59-56a 6-59-56b |
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः। साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ।। | 6-59-57a 6-59-57b |
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय । प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ।। | 6-59-58a 6-59-58b |
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः । मुमोच समरे वीरः शरान्पार्थरथं प्रति।। | 6-59-59a 6-59-59b |
अदर्शयद्वासुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ।। | 6-59-60a 6-59-60b |
तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ।। | 6-59-61a 6-59-61b |
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ।। | 6-59-62a 6-59-62b |
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः । `पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ।।' | 6-59-63a 6-59-63b 6-59-63c |
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः । मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ।। | 6-59-64a 6-59-64b |
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्। संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ।। | 6-59-65a 6-59-65b |
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि । प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।। | 6-59-66a 6-59-66b |
वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्। युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।। | 6-59-67a 6-59-67b |
अमृष्यमाणो भगवान्केशवः परवीरहा। अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ।। | 6-59-68a 6-59-68b |
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्। किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ।। | 6-59-69a 6-59-69b |
द्रवते च महासैन्यं पाण्डवस्य महात्मनः । एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ।। | 6-59-70a 6-59-70b |
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् । सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ।। | 6-59-71a 6-59-71b |
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् । अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ।। | 6-59-72a 6-59-72b |
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्। तथा चिन्तयतस्तस्य भूय एव पितामहः । प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ।। | 6-59-73a 6-59-73b 6-59-73c |
तेषां बहुत्वासु भृसं शराणां दिशश्च सर्वाः पिहिता बभूवुः । न चान्तरिक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रश्मिमालीक ।। | 6-59-74a 6-59-74b 6-59-74c 6-59-74d |
ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः। द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ।। | 6-59-75a 6-59-75b 6-59-75c 6-59-75d |
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च। प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च।। | 6-59-76a 6-59-76b 6-59-76c 6-59-76d |
किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः। तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श ।। | 6-59-77a 6-59-77b 6-59-77c 6-59-77d |
किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च। ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ।। | 6-59-78a 6-59-78b 6-59-78c 6-59-78d |
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्। स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य ।। | 6-59-79a 6-59-79b 6-59-79c 6-59-79d |
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य। विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ।। | 6-59-80a 6-59-80b 6-59-80c 6-59-80d |
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः । क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ।। | 6-59-81a 6-59-81b 6-59-81c 6-59-81d |
मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम्। तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ।। | 6-59-82a 6-59-82b 6-59-82c 6-59-82d |
पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम्। अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ।। | 6-59-83a 6-59-83b 6-59-83c 6-59-83d |
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्। ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ।। | 6-59-84a 6-59-84b 6-59-84c 6-59-84d |
भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य। न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ।। | 6-59-85a 6-59-85b 6-59-85c 6-59-85d |
तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य। निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ ।। | 6-59-86a 6-59-86b 6-59-86c 6-59-86d |
संपादयिष्याम्यहमद्य हृष्टः ।। | 6-59-87f |
` इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम्। सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह ।। | 6-59-88a 6-59-88b 6-59-88c 6-59-88d |
तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम्। यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातमक् ।। | 6-59-89a 6-59-89b 6-59-89c 6-59-89d |
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ।।' | 6-59-90a 6-59-90b 6-59-90c 6-59-90d |
वेगेन कृष्मः प्रससार भीष्मम् ।। | 6-59-91f |
घनो यथा खे तडितावनद्धः ।। | 6-59-92f |
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य । सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ।। | 6-59-93a 6-59-93b 6-59-93c 6-59-93d |
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम्। अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ।। | 6-59-94a 6-59-94b 6-59-94c 6-59-94d |
गोविन्दमाजावविमूढचेताः ।। | 6-59-95f |
एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे। प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये ।। | 6-59-96a 6-59-96b 6-59-96c 6-59-96d |
त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परिस्मिन्निह चैव लोके। संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ।। | 6-59-97a 6-59-97b 6-59-97c 6-59-97d |
रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्। जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ।। | 6-59-98a 6-59-98b 6-59-98c 6-59-98d |
निगृह्यमणाश्च तदाऽऽदिदेवो भृश सरोषः किल नाम योगी । आदाय वेगेन जगाम विष्णु- र्जिष्णुं महावात इवैकवृक्षम् ।। | 6-59-99a 6-59-99b 6-59-99c 6-59-99d |
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्। बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथंचित् ।। | 6-59-100a 6-59-100b 6-59-100c 6-59-100d |
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली। उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ।। | 6-59-101a 6-59-101b 6-59-101c 6-59-101d |
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च । अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ।। | 6-59-102a 6-59-102b 6-59-102c 6-59-102d |
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य। स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ।। | 6-59-103a 6-59-103b 6-59-103c 6-59-103d |
`ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै । त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ।। | 6-59-104a 6-59-104b 6-59-104c 6-59-104d |
प्रगृह्य शङ्खं द्विषताकं निहन्ता स तानभूषून्पुनराददानः । भीष्मं शरैः संपरिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम् ।। | 6-59-105a 6-59-105b 6-59-105c 6-59-105d |
शल्यं च विद्ध्वा नवभिः पृषत्कै- र्दुर्योधं वक्षसि निर्बिभेद।' विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ।। | 6-59-106a 6-59-106b 6-59-106c 6-59-106d |
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् । विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ।। | 6-59-107a 6-59-107b 6-59-107c 6-59-107d |
मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च। ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ।। | 6-59-108a 6-59-108b 6-59-108c 6-59-108d |
गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च। जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ।। | 6-59-109a 6-59-109b 6-59-109c 6-59-109d |
तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्। अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ।। | 6-59-110a 6-59-110b 6-59-110c 6-59-110d |
अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान्। दुर्योदनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ।। | 6-59-111a 6-59-111b 6-59-111c 6-59-111d |
स सप्तभिः सप्त शरप्रवेकान् संवार्य भीरिश्रवसा विसृष्टान् । शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ।। | 6-59-112a 6-59-112b 6-59-112c 6-59-112d |
ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम्। गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचर्त वीरः ।। | 6-59-113a 6-59-113b 6-59-113c 6-59-113d |
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् । माहेन्द्रमस्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ।। | 6-59-114a 6-59-114b 6-59-114c 6-59-114d |
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्। शरौघजालैर्विमलाग्निवर्णै- र्निवारयामास किरीटमाली ।। | 6-59-115a 6-59-115b 6-59-115c 6-59-115d |
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् । निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् । | 6-59-116a 6-59-116b 6-59-116c 6-59-116d |
ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य । गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार ।। | 6-59-117a 6-59-117b 6-59-117c 6-59-117d |
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च। अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ।। | 6-59-118a 6-59-118b 6-59-118c 6-59-118d |
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः। पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः ।। | 6-59-119a 6-59-119b 6-59-119c 6-59-119d |
सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः । ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित् ।। | 6-59-120a 6-59-120b 6-59-120c 6-59-120d |
तस्मिन्सुघोरे कनृप संप्रहारे हताः प्रवीराः सरथाश्वसूताः। गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ।। | 6-59-121a 6-59-121b 6-59-121c 6-59-121d |
परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः । दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः ।। | 6-59-122a 6-59-122b 6-59-122c 6-59-122d |
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु। पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन ।। | 6-59-123a 6-59-123b 6-59-123c 6-59-123d |
बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् । ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ।। | 6-59-124a 6-59-124b 6-59-124c 6-59-124d |
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ।। | 6-59-125a 6-59-125b 6-59-125c 6-59-125d |
वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः। नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता ।। | 6-59-126a 6-59-126b 6-59-126c 6-59-126d |
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी । विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा ।। | 6-59-127a 6-59-127b 6-59-127c 6-59-127d |
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ।। | 6-59-128a 6-59-128b 6-59-128c 6-59-128d |
प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन ।। | 6-59-129a 6-59-129b 6-59-129c 6-59-129d |
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः । जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान् ।। | 6-59-130a 6-59-130b 6-59-130c 6-59-130d |
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन । वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ।। | 6-59-131a 6-59-131b 6-59-131c 6-59-131d |
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ।। | 6-59-132a 6-59-132b 6-59-132c 6-59-132d |
तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् । अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च।। | 6-59-133a 6-59-133b 6-59-133c 6-59-133d |
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि ।। | 6-59-134a 6-59-134b 6-59-134c 6-59-134d |
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ।। | 6-59-135a 6-59-135b 6-59-135c 6-59-135d |
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन । प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ।। | 6-59-136a 6-59-136b 6-59-136c 6-59-136d |
महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः। श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ।। | 6-59-137a 6-59-137b 6-59-137c 6-59-137d |
द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन्। अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये।। | 6-59-138a 6-59-138b 6-59-138c 6-59-138d |
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन। इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ।। | 6-59-139a 6-59-139b 6-59-139c 6-59-139d |
उल्कासहस्रैश्च सुसंप्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः। किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ।। | 6-59-140a 6-59-140b 6-59-140c 6-59-140d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ।। |
6-59-31 पिण्डितान् एकस्थान्। वर्मितान् कवचिनः ।। 6-59-39 आक्रन्दे युद्धे ।। 6-59-83समुदीर्यमाणं वर्धमानप्रयत्नम् ।। 6-59-87 अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ।। 6-59-111 प्रजिघाय प्रेषयामास ।। 6-59-112 शरप्रवेकान् बाणश्रेष्ठान् ।।
भीष्मपर्व-058 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-060 |