महाभारतम्-06-भीष्मपर्व-002

विकिस्रोतः तः
← भीष्मपर्व-001 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-002
वेदव्यासः
भीष्मपर्व-003 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

श्रीव्यासेन धृतराष्ट्रंप्रति युद्धदर्शनाय चक्षुर्दानकथनम् ।। 1 ।।
धृतराष्ट्रेण युद्धश्रवणमात्रे प्रार्थिते व्यासेन सञ्जयंप्रति युद्धिविषये सार्वज्ञदानपूर्वकं युद्धप्रकारकथननियोगः ।। 2 ।
व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ।। 3 ।।

वैशंपायन उवाच। 6-2-1x
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ।।
6-2-1a
6-2-1b
भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ।।
6-2-2a
6-2-2b
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ।।
6-2-3a
6-2-3b
व्यास उवाच। 6-2-4x
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ।।
6-2-4a
6-2-4b
तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाहाय मा स्म शोके मनः कृथा ।।
6-2-5a
6-2-5b
यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते ।
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ।।
6-2-6a
6-2-6b
धृतराष्ट्र उवाच। 6-2-7x
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। 6-2-7a
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ।। 6-2-7a
वैशंपायन उवाच। 6-2-8x
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति।
वराणामीश्वरो व्यासः संजयाय वरं ददौ ।।
6-2-8a
6-2-8b
व्यास उवाच। 6-2-9x
एष ते संजयो राजन्युद्धमेतद्वदिष्यति।
एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ।।
6-2-9a
6-2-9b
चक्षुषा संजयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ।।
6-2-10a
6-2-10b
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ।।
6-2-11a
6-2-11b
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ।।
6-2-12a
6-2-12b
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ।।
6-2-13a
6-2-13b
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ।।
6-2-14a
6-2-14b
वैशंपायन उवाच। 6-2-15x
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ।।
6-2-15a
6-2-15b
इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ।।
6-2-16a
6-2-16b
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ।।
6-2-17a
6-2-17b
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ।।
6-2-18a
6-2-18b
कटाकटेति वाशन्तो भैरवा भयवेदिनः ।
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ।।
6-2-19a
6-2-19b
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ।।
6-2-20a
6-2-20b
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ।।
6-2-21a
6-2-21b
ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् ।
चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले ।
6-2-22a
6-2-22b
आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ।।
6-2-23a
6-2-23b
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ।।
6-2-24a
6-2-24b
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ।।
6-2-25a
6-2-25b
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च।।
6-2-26a
6-2-26b
अनाहता दुन्दुभयः प्रणदन्ति विशांपते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ।।
6-2-27a
6-2-27b
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ।।
6-2-28a
6-2-28b
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ।।
6-2-29a
6-2-29b
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ।।
6-2-30a
6-2-30b
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ।।
6-2-31a
6-2-31b
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ।।
6-2-32a
6-2-32b
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् ।
वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ।।
6-2-33a
6-2-33b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ।।

[सम्पाद्यताम्]

6-2-2 भविष्यति भाविनि ।। 6-2-4 हिंसन्तीव नाशयिष्यन्त्येव ।। 6-2-5 पर्यायं वैपरीत्यम् ।। 6-2-6 निशामय पश्य ।। 6-2-17 समवायान् संघान् ।। 6-2-18 अभ्यग्रं समीपम् । क्रव्यादामांसभक्षकाः ।। 6-2-19 वाशन्तः शब्दं कुर्वन्तः ।। 6-2-21 परिघाः परिवेषाः कृष्णग्रीवाः मध्ये कृष्णाः श्वेतलोहितपर्यन्ताश्च संधौ संध्यायाम् आवारयन्ति वेष्टयन्ति ।। 6-2-22 निर्विशेषदिनक्षयं इति झo पाठे निर्विशेषदिनक्षयं अहोरात्रम्। निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् । सूर्योदयद्वयस्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम्। तदेव विशिनष्टि ज्वलितेति। अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन्। दर्से क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ।। 6-2-23 पद्मवर्णे रक्तपद्मवर्णे ।। 6-2-27 अयुक्ताः अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति। महान्तो रथाः महारथाः । मनोरथा इति कo पाठः ।। 6-2-29 गृहीतशस्त्रः आत्तलोहाः लोहतुण्डा इति यावत् शस्त्रमायुधलोहयोरित्यमरः। चर्मिणो भृङ्गरिटिसंज्ञाः कृष्णशलभविशेषाः ।।

भीष्मपर्व-001 पुटाग्रे अल्लिखितम्। भीष्मपर्व-003