महाभारतम्-06-भीष्मपर्व-012

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-011 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-012
वेदव्यासः
भीष्मपर्व-013 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

क्रौञ्चदिद्वीपवर्णनम् ।। 1 ।।

सञ्जय उवाच। 6-12-1x
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा।
एवं तत्र महाराज ब्रुवतश्च निबोध मे ।।
6-12-1a
6-12-1b
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।
सुरोदः सागरश्चैव तथान्यो जलसागरः ।।
6-12-2a
6-12-2b
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।
पर्वताश्च महाराज समुद्रैः परिवारिताः ।।
6-12-3a
6-12-3b
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ।।
6-12-4a
6-12-4b
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ।।
6-12-5a
6-12-5b
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह ।
संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ।।
6-12-6a
6-12-6b
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।
संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ।।
6-12-7a
6-12-7b
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ।।
6-12-8a
6-12-8b
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ।
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ।।
6-12-9a
6-12-9b
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ।।
6-12-10a
6-12-10b
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।।
6-12-11a
6-12-11b
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।।
6-12-12a
6-12-12b
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् ।
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ।।
6-12-13a
6-12-13b
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः ।
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ।।
6-12-14a
6-12-14b
विहरन्ते रमन्ते च न तेषु म्रियते जनः।
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ।।
6-12-15a
6-12-15b
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ।
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ।।
6-12-16a
6-12-16b
यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु ।
क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ।।
6-12-17a
6-12-17b
क्रौञ्चात्परो वामनको वामनादन्धकारकः।
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ।
6-12-18a
6-12-18b
मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः ।
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ।।
6-12-19a
6-12-19b
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।।
6-12-20a
6-12-20b
क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः।
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ।।
6-12-21a
6-12-21b
उष्णात्परः प्रावरकः प्रावारादन्धकारकः।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।।
6-12-22a
6-12-22b
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः।
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ।।
6-12-23a
6-12-23b
एते देशा महाराज देवगन्धर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ।।
6-12-24a
6-12-24b
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः ।
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ।।
6-12-25a
6-12-25b
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ।।
6-12-26a
6-12-26b
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम।
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ।।
6-12-27a
6-12-27b
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः।
एको जनपदो राजन्द्वीपेष्वेतेषु भारत।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ।।
6-12-28a
6-12-28b
6-12-28c
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ।।
6-12-29a
6-12-29b
स राजा स शिवो राजन्स पिता प्रतितामहः ।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ।।
6-12-30a
6-12-30b
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ।।
6-12-31a
6-12-31b
ततः परं समा नाम दृश्यते लोकसंस्थितिः।
चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ।।
6-12-32a
6-12-32b
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ।।
6-12-33a
6-12-33b
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः।
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ।।
6-12-34a
6-12-34b
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ।
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ।।
6-12-35a
6-12-35b
असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः ।
पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः ।।
6-12-36a
6-12-36b
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः ।
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ।
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ।।
6-12-37a
6-12-37b
6-12-37c
धृतराष्ट्र उवाच। 6-12-38x
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः।
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ।।
6-12-38a
6-12-38b
सञ्जय उवाच। 6-12-39x
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः ।
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ।।
6-12-39a
6-12-39b
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ।।
6-12-40a
6-12-40b
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ।।
6-12-41a
6-12-41b
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ।।
6-12-42a
6-12-42b
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ।। 6-12-43a
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ।।
6-12-44a
6-12-44b
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ।
श्रूयते परमोदारः पतगोऽसौ विभावसुः ।।
6-12-45a
6-12-45b
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ।
स राहुश्छादयत्येतौ यथाकालं महात्तया ।।
6-12-46a
6-12-46b
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ।
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ।।
6-12-47a
6-12-47b
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ।।
6-12-48a
6-12-48b
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति।
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ।।
6-12-49a
6-12-49b
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ।
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ।।
6-12-50a
6-12-50b
यः शृणोति महीपाल पर्वणीदं यतव्रतः ।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ।।
6-12-51a
6-12-51b
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्।
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ।।
6-12-52a
6-12-52b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भूमिपर्वणि द्वादशोऽध्यायः ।।
।। समाप्तमिदं भूमिपर्व ।।

[सम्पाद्यताम्]

6-12-4 मानःशिलो मनःशिलामयः ।। 6-12-34 तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य । तत्कस्योपरिवर्तते इति दुर्वचम्। तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ।। 6-12-36 पुष्करैः शुण्डाग्रैः ।। 6-12-39 उत्तरं सूर्येन्दुराहुप्रमाणम् ।। 6-12-41 परिणाहेन परिधिना षट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन ।। 6-12-42 षष्टिर्योजनानि परिणाह एवेत्यर्थः ।। 6-12-45 पतगः शीघ्रगः । विभावसुः सूर्यः ।।

भीष्मपर्व-011 पुटाग्रे अल्लिखितम्। भीष्मपर्व-013