महाभारतम्-06-भीष्मपर्व-067
दिखावट
← भीष्मपर्व-066 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-067 वेदव्यासः |
भीष्मपर्व-068 → |
|
भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम् ।। 1 ।। युधिष्ठिरस्य कृष्मसमाश्रयणेन विजय इति कथनम् ।। 2 ।।
दुर्योधन उवाच। | 6-67-1x |
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ।। | 6-67-1a 6-67-1b |
भीष्म उवाच। | 6-67-2x |
वासुदेवो महद्भूतं सर्वदैवतदैवतम् । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ।। | 6-67-2a 6-67-2b |
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च। असितो देवलश्चापि वालखिल्यास्तपोधनाः ।। | 6-67-3a 6-67-3b 6-67-3c |
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्। सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ।। | 6-67-4a 6-67-4b |
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्। स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ।। | 6-67-5a 6-67-5b |
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्वदेवमयो देवः शयानः शयने सुखम् ।। | 6-67-6a 6-67-6b |
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च। सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ।। | 6-67-7a 6-67-7b |
एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह। अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ।। | 6-67-8a 6-67-8b |
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः । एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ।। | 6-67-9a 6-67-9b |
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् । उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ।। | 6-67-10a 6-67-10b |
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् । स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ।। | 6-67-11a 6-67-11b |
अग्रजं सर्वभूतानां संकर्षणमकल्पयत्। शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ।। | 6-67-12a 6-67-12b |
यो धारयति भूतानि धरां चेमां सपर्वताम्। ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्। कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ।। | 6-67-13a 6-67-13b 6-67-13c |
तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् । हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता। ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ।। | 6-67-14a 6-67-14b 6-67-14c |
तस्य तात वधादेव देवदानवमानवाः । मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ।। | 6-67-15a 6-67-15b |
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् । एष धाता विधाता च सर्वेषां प्रामिनां हरिः ।। | 6-67-16a 6-67-16b |
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति। मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ।। | 6-67-17a 6-67-17b |
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच। तपसा नियतं देवं निधानं सर्वदेहिनाम् ।। | 6-67-18a 6-67-18b |
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतं परिचरन्केशवं महदाप्नुयात्।। | 6-67-19a 6-67-19b |
केशवः परमं तेजः सर्वलोकपितामहः । एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ।। | 6-67-20a 6-67-20b |
एवमेनं विजानीहि आचार्यं पितरं गुरुम् । कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ।। | 6-67-21a 6-67-21b |
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् । सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ।। | 6-67-22a 6-67-22b |
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मग्नांश्च पाति नित्यं जनार्दनःक ।। | 6-67-23a 6-67-23b |
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत। सर्वात्मना महात्मानं केशवं जगदीश्वरम्। प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ।। | 6-67-24a 6-67-24b 6-67-24c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः ।। |
6-67-8 प्रभव उत्पत्तिहेतुः। अप्ययः प्रलयहेतुः ।। 6-67-13 कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ।।
भीष्मपर्व-066 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-068 |