महाभारतम्-06-भीष्मपर्व-070
दिखावट
← भीष्मपर्व-069 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-070 वेदव्यासः |
भीष्मपर्व-071 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-70-1x |
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा। भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ।। | 6-70-1a 6-70-1b |
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत । कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ।। | 6-70-2a 6-70-2b |
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये । अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ।। | 6-70-3a 6-70-3b |
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ।। | 6-70-4a 6-70-4b |
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक । अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ।। | 6-70-5a 6-70-5b |
शिरासं पात्यमानानां समरे निशितैः शरैः। अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ।। | 6-70-6a 6-70-6b |
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च। पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ।। | 6-70-7a 6-70-7b |
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैरभवच्छादिता मही ।। | 6-70-8a 6-70-8b |
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः । मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ।। | 6-70-9a 6-70-9b |
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते । आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः ।। | 6-70-10a 6-70-10b |
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः । आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ।। | 6-70-11a 6-70-11b |
स संप्रहारस्तुमुलःक कटुकः शोणितोदकः। प्रावर्तत कुरूणां च पाण्डवानां च भारत ।। | 6-70-12a 6-70-12b |
तस्मिन्महाभये घोरे तुमुले रोमहर्षणे। ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ।। | 6-70-13a 6-70-13b |
आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः । तावकानां परेषां च संयुगे भरतर्षभ ।। | 6-70-14a 6-70-14b |
संरब्धानां च वीराणां धीराणाममितौजसाम् । धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ।। | 6-70-15a 6-70-15b |
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके। समरे पर्यधावन्त नृपा रिपुवधोद्यताः ।। | 6-70-16a 6-70-16b |
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः । निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ।। | 6-70-17a 6-70-17b |
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ।। | 6-70-18a 6-70-18b |
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधा भरतसत्तम ।। | 6-70-19a 6-70-19b |
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत। गदानां परिघाणां च हस्तानां चोरुभिः सह ।। | 6-70-20a 6-70-20b |
पादानां भूषणानां च केयूराणां च सङ्घशः। राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ।। | 6-70-21a 6-70-21b |
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् । सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते ।। | 6-70-22a 6-70-22b |
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ।। | 6-70-23a 6-70-23b |
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि। बहुधा समसञ्जन्त आयसैः परिघैरिव ।। | 6-70-24a 6-70-24b |
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते । अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ।। | 6-70-25a 6-70-25b |
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले। घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ।। | 6-70-26a 6-70-26b |
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक । अन्योन्यमभिधावन्तः परस्परवधैषिणः ।। | 6-70-27a 6-70-27b |
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः। पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ।। | 6-70-28a 6-70-28b |
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्। भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ।। | 6-70-29a 6-70-29b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ।। |
भीष्मपर्व-069 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-071 |