महाभारतम्-06-भीष्मपर्व-079
पठन सेटिंग्स
← भीष्मपर्व-078 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-079 वेदव्यासः |
भीष्मपर्व-080 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-79-1x |
ततो दुर्योधनो राजा लोहितायति भास्करे। संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ।। | 6-79-1a 6-79-1b |
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् । भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ।। | 6-79-2a 6-79-2b |
अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः । अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ।। | 6-79-3a 6-79-3b |
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ।। | 6-79-4a 6-79-4b |
यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे । तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ।। | 6-79-5a 6-79-5b |
कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा । अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ।। | 6-79-6a 6-79-6b |
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे। उलूकस्य समादेशं यद्ददासि च हृष्टवत् ।। | 6-79-7a 6-79-7b |
तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् । शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि ।। | 6-79-8a 6-79-8b |
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् । समाधत्त शरान्घोरान्महाशनिसमप्रभान् ।। | 6-79-9a 6-79-9b |
षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने । ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ।। | 6-79-10a 6-79-10b |
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे । चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ।। | 6-79-11a 6-79-11b |
द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः । छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम् ।। | 6-79-12a 6-79-12b |
षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् । छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ।। | 6-79-13a 6-79-13b |
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात्। पपात सहसा भूमौ विद्युञ्जलधरादिव ।। | 6-79-14a 6-79-14b |
ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ।। | 6-79-15a 6-79-15b |
अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् । आजघान रणे वीरं स्मयन्निव महारथः ।। | 6-79-16a 6-79-16b |
स गाढविद्धो व्यथितो भीमसेनेन संयुगे । निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः ।। | 6-79-17a 6-79-17b |
ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः । दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः ।। | 6-79-18a 6-79-18b |
कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् । आरोपयद्रथं राजन्दुर्योधनममर्षणम् ।। | 6-79-19a 6-79-19b |
परिवार्य ततो भीमं जेतुकामो जयद्रथः । रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।। | 6-79-20a 6-79-20b |
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ।। | 6-79-21a 6-79-21b |
चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः । चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ।। | 6-79-22a 6-79-22b |
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः । अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ।। | 6-79-23a 6-79-23b |
आजघान ततस्तूर्णमभिमन्युर्महामनाः । एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ।। | 6-79-24a 6-79-24b |
वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः । अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ।। | 6-79-25a 6-79-25b |
ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः । स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ।। | 6-79-26a 6-79-26b |
अभिमन्युर्महाराज तावकान्समकम्पयत्। यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ।। | 6-79-27a 6-79-27b |
विकर्णस्य ततो भल्लान्प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।। | 6-79-28a 6-79-28b |
स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् । ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ।। | 6-79-29a 6-79-29b |
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्। प्रेषयामास संक्रुद्धो विकर्णाय महाबलः ।। | 6-79-30a 6-79-30b |
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ।। | 6-79-31a 6-79-31b |
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले । विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ।। | 6-79-32a 6-79-32b |
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः । अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ।। | 6-79-33a 6-79-33b |
अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः । अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः ।। | 6-79-34a 6-79-34b |
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः ।। | 6-79-35a 6-79-35b |
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः । जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत् ।। | 6-79-36a 6-79-36b |
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः । शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ।। | 6-79-37a 6-79-37b |
सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः । विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा ।। | 6-79-38a 6-79-38b |
दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो। विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् ।। | 6-79-39a 6-79-39b |
तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः । पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ।। | 6-79-40a 6-79-40b |
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ।। | 6-79-41a 6-79-41b |
तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्। चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ।। | 6-79-42a 6-79-42b |
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत। तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम् ।। | 6-79-43a 6-79-43b |
अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः । शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम् ।। | 6-79-44a 6-79-44b |
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः । ननाद सुमहानादं प्रभिन्न इव वारणः ।। | 6-79-45a 6-79-45b |
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना । शतानीको जयत्सेनं विव्याध हृदये भृशम् ।। | 6-79-46a 6-79-46b |
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके । मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान् चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ।। | 6-79-47a 6-79-47b 6-79-47c |
अथान्यद्धनुरादाय भारसाहमनुत्तमम् । समादत्त शरान्घोराञ्शतानीको महाबलः ।। | 6-79-48a 6-79-48b |
तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव ।। | 6-79-49a 6-79-49b |
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष । चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ।। | 6-79-50a 6-79-50b |
अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः । जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ।। | 6-79-51a 6-79-51b |
अथापरेण भल्लेन सुयुक्तेनाशुपातिना। दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम् ।। | 6-79-52a 6-79-52b |
स पपात ततो भूमौ वज्राहत इव द्रुमः । दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ।। | 6-79-53a 6-79-53b |
दिघांसन्तः शतानीकं सर्वतः पर्यवारयन्। छाद्यमानं शरव्रतैः शतानीकं यशस्विनम् ।। | 6-79-54a 6-79-54b |
अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः । तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ।। | 6-79-55a 6-79-55b |
प्रत्युद्ययुर्महाराज गजानिव महागजाः । दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ।। | 6-79-56a 6-79-56b |
शत्रुंजयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः । प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ।। | 6-79-57a 6-79-57b |
रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः । नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ।। | 6-79-58a 6-79-58b |
शरचापधरा वीरा विचित्रकवचध्वजाः । विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ।। | 6-79-59a 6-79-59b |
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम् ।। | 6-79-60a 6-79-60b |
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् । मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ।। | 6-79-61a 6-79-61b |
रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः । ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः ।। | 6-79-62a 6-79-62b |
नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् । पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ।। | 6-79-63a 6-79-63b |
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ।। | 6-79-64a 6-79-64b |
नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ। करवाणामनीकानि शरैः सन्नतपर्वभिः ।। | 6-79-65a 6-79-65b |
धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ।। | 6-79-66a 6-79-66b |
` अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।' हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः ।। | 6-79-67a 6-79-67b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे एकोनाशीतितमोऽध्यायः ।। |
भीष्मपर्व-078 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-080 |