महाभारतम्-06-भीष्मपर्व-017

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-016 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-017
वेदव्यासः
भीष्मपर्व-018 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

युद्धाय कुरुसेनानिर्याणम् ।। 1 ।।

सञ्जय उवाच। 6-17-1x
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्।
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ।।
6-17-1a
6-17-1b
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत।
दीप्यमानाश्च संपेतुर्दिवि सप्त महग्रहाः ।।
6-17-2a
6-17-2b
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत।
ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः ।।
6-17-3a
6-17-3b
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः ।
लिप्समानाः शरीराणि मांसशोणितभोजनाः ।।
6-17-4a
6-17-4b
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ।।
6-17-5a
6-17-5b
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुरिन्दमौ ।
युयुधाते तवार्थाय यथा स समयः कृतः ।।
6-17-6a
6-17-6b
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।
समानीय महीपालानिदं वचनमब्रवीत् ।।
6-17-7a
6-17-7b
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्।
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ।।
6-17-8a
6-17-8b
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः ।
संभावयध्वमात्मानमव्यग्रमनसो युधि ।।
6-17-9a
6-17-9b
नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः ।
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ।।
6-17-10a
6-17-10b
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।
यदयोनिधनं याति सोऽस्य धर्मः सनातनः ।।
6-17-11a
6-17-11b
एवमुक्ता महीपाला भीष्मेण भरतर्षभ।
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ।।
6-17-12a
6-17-12b
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ।।
6-17-13a
6-17-13b
अपेतकर्णाः पुत्रास्ते राजनश्चैव तावकाः ।
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ।।
6-17-14a
6-17-14b
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।
तान्यनीकानि शोभन्ते गजैरथ पदातिभिः ।।
6-17-15a
6-17-15b
भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः ।
रथनेमिनिनादैश्च बभूवाकुलिता मही ।।
6-17-16a
6-17-16b
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।
भ्राजमाना व्यराजन्त साग्नयः पर्वता इव ।।
6-17-17a
6-17-17b
तालेन महता भीष्मः पञ्चतारेण केतुना ।
विमलादित्यसंकाशस्तस्थौ कुरुचमूपरि ।।
6-17-18a
6-17-18b
ये त्वदीया महेष्वासा राजानो भरतर्षभ ।
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ।।
6-17-19a
6-17-19b
स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।
ययौ मातङ्गराजेन राजार्हेण पताकिना ।
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ।।
6-17-20a
6-17-20b
6-17-20c
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना ।
श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः ।।
6-17-21a
6-17-21b
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।।
6-17-22a
6-17-22b
स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः।
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ।।
6-17-23a
6-17-23b
भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः।
जाम्बूनदमयी वेदी कमण्डलुविभूषिता ।।
6-17-24a
6-17-24b
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ।
अनेकशतसाहस्रमनीकमनुकर्षतः ।।
6-17-25a
6-17-25b
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ।
तस्य पौरवकालिङ्गकाम्भोजाः समुदक्षिणाः ।।
6-17-26a
6-17-26b
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः।
स्यन्दनेन महार्हेण केतुना वृषभेण च।
प्रकर्षन्नेव सेनाग्नं मागधस्य कृपो ययौ ।।
6-17-27a
6-17-27b
6-17-27c
तदङ्गपतिनां गुप्तं कृपेण च मनस्विना ।
शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम् ।।
6-17-28a
6-17-28b
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः।
शुशुभे केतुमुख्येन राजतेन जयद्रथः ।।
6-17-29a
6-17-29b
शतं रतसहस्राणां तस्यासन्वशवर्तिनः।
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ।।
6-17-30a
6-17-30b
तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्।
अनन्तरथनागाश्वमशोभत महद्बलम् ।।
6-17-31a
6-17-31b
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च।
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ।।
6-17-32a
6-17-32b
तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।
यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः ।।
6-17-33a
6-17-33b
शुशुभे केतुमुख्येन पावकेन कलिङ्गकः।
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च।।
6-17-34a
6-17-34b
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्।
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ।।
6-17-35a
6-17-35b
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ।।
6-17-36a
6-17-36b
गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ।।
6-17-37a
6-17-37b
स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् ।
वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः ।।
6-17-38a
6-17-38b
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च।
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च ।।
6-17-39a
6-17-39b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि सप्तदशोऽध्यायः ।।

[सम्पाद्यताम्]

6-17-2 मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति। मघा पित्र्यां नक्षत्रं तस्य विषयो देशः पितृलोकस्तद्गतः सोमः। कुरुपाण्डवयुद्धारम्भदिनमुक्तं भारतसावित्र्याम्-हेमन्ते प्रथमे मासि शुक्लपक्षे त्रयोदशीम्। प्रवृत्तं भारतं युद्धं नक्षत्रे यमदैवते। प्रथमे मार्गशीर्षे। अत्र त्रयोदशीशब्देन तद्युक्ता चतुर्दश्येव ग्राह्या। अर्जुनेन हतो भीष्मो माघमासेऽसिताष्टमीति। त्रयोदश्यां तु मध्याह्ने भारद्वाजो निपातित इति। तत्रैव युद्धस्य दशमे पञ्चदशे चाह्नि तयोर्भीष्मद्रोणयोरष्टमीत्रयोदशीसंयोगदर्शनात्। अत्र पौषेति माघशब्दो मकरायनाभिप्रायेण। तदानीं तत्संभवात् असिताष्टमीति छेदः। अन्यथा सप्तमीद्वादश्योरेव तयोर्हननं प्राप्नोति। यत्तु अमावास्यायां दुर्योधनहननं तत्रैवोक्तं तत्राप्यमावास्याशब्द इष्टिदिने प्रतिपद्येव प्रयुक्तो वेदितव्यः। यमदैवते इति भरणी न ग्राह्य किंतु युग्मदैवतं मृगशीर्षमेव ग्राह्यम्। तस्य हि पूर्वदलं शुक्रदैवत्यत्वादासुरं उत्तरार्थं बुधदैवत्यत्वाद्दैव्यम्। तेन तत्रासुराणामुपरमो देवानामभ्युदयश्च सिद्ध्यति। किंच-चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै। पुष्येण संप्रयातोस्मि श्रवणे पुनरागत इति युद्धारम्भादष्टादशेऽह्नि तीर्थयात्रात आगतस्य बलदेवस्य वचनात् श्रवणे युद्धसमाप्तिर्दृश्यते। ततः प्राचीनेऽष्टादशर्क्षे मृगशीर्ष एव युद्धारम्भः संभवति नत्वेकविंशे भरण्याम्। अष्टादशदिनमध्ये नक्षत्रत्रयक्षयस्य कल्पयितुमयुक्तत्वात् कार्तिकी कृत्तिकायोगानुपातेन चतुर्दश्यां मृगस्यैव संभावनाच्च। एतेन युद्धारम्भं प्रकृत्य- मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतेति भीष्मपर्वणि सञ्जयवाक्यान्मघायां युद्धारम्भ इत्यपि निरस्तम्। बलदेववाक्यविरुद्धत्वात् । शब्दार्थस्तु मघापदेन तत्सहचराः पितरो लक्ष्यन्ते। तेन युद्धे मृतानां उत्तमदेहप्रदानार्थं चन्द्रस्तदा पितृलोके सन्निहितोऽभूदिति। स्वर्गिणां दिव्यदेहलाभश्चन्द्राधीन इति शास्त्रप्रसिद्धेः । तथा द्वादश्यां रात्रियुद्धे चन्द्रोदयकाले-त्रिभागमात्रशेषायां रात्रौ युद्धमवर्ततेत्युक्तम् तत्र त्रिभागेत्यस्य त्रिमुहूर्तशेषायामित्यर्थः। तथा-अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः इति भीष्मवचनं तु-माघोऽयं समनु प्राप्तः- त्रिभगमात्रः पक्षोऽयं इति वाक्यशेषानुसारात्। अशतं शतहीनं यथा स्यात्तथा अष्टपञ्च अष्टपञ्चाशद्रात्रयो व्यतीता इति व्याख्येयम्। विलोमशोधनात् अष्टपञ्चाशदूनं शतं रात्रयो द्वाचत्वारिंशद्रात्रयो व्यतीता इत्यर्थः। तथाच पौषकृष्णाष्टमीतो माघशुक्लपञ्चम्यां तावती दिनसंख्या पूर्यते पक्षस्य च तृतीयो भागो गतो भवति। ततत्राप्येकतिथिक्षयात् पञ्चम्याः द्विचत्वारिंशत्तमत्वं ज्ञेयम्। शेषो भवितुमर्हतीत्यत्र कार्यशेषो देहत्यागादिरेव शेषो नतु पक्षशेष इति व्याख्या ज्ञेया। तत्रायं निष्कर्षः। कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम्। ततो निष्कर्षः। कार्तिकशुक्लद्वादश्यां रेवत्यां कृष्णप्रयाणम्। ततो मार्गशीर्षकृष्णपञ्चम्यां पुष्ये सेनयोर्निर्याणम्। ततः पञ्चम्यां उपरि षष्ठीमारभ्य सप्तदिनानि गणयित्वा तदुपर्यष्टमेऽह्नि अमावास्या भविष्यतीत्यनेन त्रयोदशदिनात्मकोऽयं कृष्णपक्षो महोत्पातजनक इति सूचितम्। क्षीणयोश्च तिथ्योः पक्षान्तरे पुनर्वृद्ध्या संख्यापूरणेभवतीति मार्गशीर्षकृष्णपञ्चमीमारभ्य पौषशुक्लप्रतिपत् द्विचत्वारिंशी तिथिर्भवतीति बलदेववाक्योक्ता दिनसंख्या नक्षत्रसंख्या चानुगृहीत भवति। यत्तु- सप्तमाच्चापि दिवसादमावाक्या भविष्यति। संग्रामयोजयेत्तत्र तां ह्याहुः शक्रदैवताम्। प्रयाध्वं वै कुरुक्षेत्रं पुष्यो द्येति पुनःपुनरिति दुर्योधनवाक्यम् तत्र संग्राममित्यनेन संग्रामे जयसाधनं धाराबन्धादिकं तस्यां योजयेदित्युक्तम्। शक्रदैवतामित्यनेन तस्यां ज्येष्ठानक्षत्रयोग उच्यते। सच तिथिद्वयक्षयात्तत्रासंभवन्नपि तत्र तिथिवदेव नक्षत्रक्षयाद्वा तिथिनक्षत्रयोराद्यन्तयोगाद्वा ज्ञेय इति सर्वं समञ्जसम्। महाग्रहाः राहुकेतो रुपग्रहत्वात्सप्तैव ।। 6-17-4 ववाशिरे शब्दं कृतवन्तः ।। 6-17-11 अयोनिधनं अयसा शस्त्रेण मरणम् ।। 6-17-18 तालेन ध्वजभूतेन ।। 6-17-20 गोवासनः तद्द्रेश्यः ।। 6-17-29 वराहेण केतुमुख्येनेति संबन्धः ।। 6-17-34 निष्केण कण्ठाभरणेन ।।

भीष्मपर्व-016 पुटाग्रे अल्लिखितम्। भीष्मपर्व-018