महाभारतम्-06-भीष्मपर्व-037
पठन सेटिंग्स
← भीष्मपर्व-036 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-037 वेदव्यासः |
भीष्मपर्व-038 → |
|
सप्तत्रिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 13 ।।
अर्जुन उवाच। | 6-37-1x |
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ।। | 6-37-1a 6-37-1b |
श्रीभगवानुवाच। | 6-37-2x |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।। | 6-37-2a 6-37-2b |
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ।। | 6-37-3a 6-37-3b |
तत्क्षेत्रं यच्च यादृक् यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु ।। | 6-37-4a 6-37-4b |
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ।। | 6-37-5a 6-37-5b |
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।। | 6-37-6a 6-37-6b |
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ।। | 6-37-7a 6-37-7b |
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ।। | 6-37-8a 6-37-8b |
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।। | 6-37-9a 6-37-9b |
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। | 6-37-10a 6-37-10b |
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। | 6-37-11a 6-37-11b |
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ।। | 6-37-12a 6-37-12b |
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ।। | 6-37-13a 6-37-13b |
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। | 6-37-14a 6-37-14b |
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।। | 6-37-15a 6-37-15b |
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। | 6-37-16a 6-37-16b |
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। | 6-37-17a 6-37-17b |
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। | 6-37-18a 6-37-18b |
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ।। | 6-37-19a 6-37-19b |
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ।। | 6-37-20a 6-37-20b |
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।। | 6-37-21a 6-37-21b |
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।। | 6-37-22a 6-37-22b |
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ।। | 6-37-23a 6-37-23b |
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ।। | 6-37-24a 6-37-24b |
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।। | 6-37-25a 6-37-25b |
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।। | 6-37-26a 6-37-26b |
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ।। | 6-37-27a 6-37-27b |
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। | 6-37-28a 6-37-28b |
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिं ।। | 6-37-29a 6-37-29b |
प्रत्यत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ।। | 6-37-30a 6-37-30b |
यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ।। | 6-37-31a 6-37-31b |
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।। | 6-37-32a 6-37-32b |
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ।। | 6-37-33a 6-37-33b |
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ।। | 6-37-34a 6-37-34b |
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।। | 6-37-35a 6-37-35b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तत्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगोनाम त्रयोदशोऽध्यायः ।। |
6-37-1 अयं श्लोकः प्रक्षित इति केचित् ।। 6-37-5 विनिश्चिताम् इति माध्वपाठः ।। 6-37-18 सर्वस्य धिष्ठितमिति पाठान्तरम् ।। 6-37-24 य एनं वेत्ति इति माध्वपाठः ।।
भीष्मपर्व-036 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-038 |