महाभारतम्-06-भीष्मपर्व-080
← भीष्मपर्व-079 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-080 वेदव्यासः |
भीष्मपर्व-081 → |
|
सञ्जय उवाच॥
अथ शूरा महाराज परस्परकृतागसः |
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥१॥
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् |
संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥२॥
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः |
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥३॥
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि |
विदार्य हत्वा च निपीड्य शूरास्ते पाण्डवानां त्वरिता रथौघाः ॥४॥
संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम् |
प्रविश्य भीमेन निबर्हितोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥५॥
क्रुद्धं तमुद्वीक्ष्य भयेन राजन्संमूर्छितो नालभं शान्तिमद्य |
इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६॥
तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं जातमन्युं विदित्वा |
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥७॥
परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र |
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥८॥
एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः |
ये पाण्डवानां समरे सहाया जितक्लमाः क्रोधविषं वमन्ति ॥९॥
ते नेह शक्याः सहसा विजेतुं वीर्योन्नद्धाः कृतवैरास्त्वया च |
अहं ह्येतान्प्रतियोत्स्यामि राजन्सर्वात्मना जीवितं त्यज्य वीर ॥१०॥
रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य |
सर्वांस्तवार्थाय सदेवदैत्याँ ल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥११॥
तत्पाण्डवान्योधयिष्यामि राजन्प्रियं च ते सर्वमहं करिष्ये |
श्रुत्वैव चैतत्परमप्रतीतो दुर्योधनः प्रीतमना बभूव ॥१२॥
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् |
तदाज्ञया तानि विनिर्ययुर्द्रुतं रथाश्वपादातगजायुतानि ॥१३॥
प्रहर्षयुक्तानि तु तानि राजन्महान्ति नानाविधशस्त्रवन्ति |
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ॥१४॥
वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ताश्चकाशिरे दन्तिगणाः समन्तात् |
शस्त्रास्त्रविद्भिर्नरदेव योधै रधिष्ठिताः सैन्यगणास्त्वदीयाः ॥१५॥
रथैश्च पादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः |
समुद्धतं वै तरुणार्कवर्णं रजो बभौ छादयत्सूर्यरश्मीन् ॥१६॥
रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् |
नानारङ्गाः समरे तत्र राजन्मेघैर्युक्ता विद्युतः खे यथैव ॥१७॥
धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः |
विमथ्यतो देवमहासुरौघैर्यथार्णवस्यादियुगे तदानीम् ॥१८॥
तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवम् |
बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् ॥१९॥
भीष्मदुर्योधनसंवादः ।। 1 ।।
सञ्जय उवाच। | 6-80-1x |
क्षत्रियास्ते महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ।। | 6-80-1a 6-80-1b |
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ।। | 6-80-2a 6-80-2b |
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ।। | 6-80-3a 6-80-3b |
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि। विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ।। | 6-80-4a 6-80-4b 6-80-4c 6-80-4d |
संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं मृत्युकल्पम् । प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ।। | 6-80-5a 6-80-5b 6-80-5c 6-80-5d |
क्रुद्धं तमुद्वीक्ष्य भयेन राज- न्संमूर्च्छितो न लभे शान्तिमद्य । इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ।। | 6-80-6a 6-80-6b 6-80-6c 6-80-6d |
तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा। तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः सस्त्रभृतां वरिष्ठः ।। | 6-80-7a 6-80-7b 6-80-7c 6-80-7d |
परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र। इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ।। | 6-80-8a 6-80-8b 6-80-8c 6-80-8d |
एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः । ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति ।। | 6-80-9a 6-80-9b 6-80-9c 6-80-9d |
केनेह शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च। अहं ह्येतान्प्रतियोत्स्यामि राज- न्सर्वात्मना जीवितं त्यज्य वीर ।। | 6-80-10a 6-80-10b 6-80-10c 6-80-10d |
रणे तवार्थाय महानुभाव न जीवितं रक्षितव्यं ममाद्य। सर्वांस्तवार्थाय सदेवदैत्याँ- ल्लोकान्दहेयं किमु शत्रुसेनाम् ।। | 6-80-11a 6-80-11b 6-80-11c 6-80-11d |
तान्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये। | 6-80-12a 6-80-12b |
सञ्जय उवाच। | 6-80-12x |
श्रुत्वा पितुस्ते वचनं प्रतीतो दुर्योधनः प्रीतमना बभूव ।। | 6-80-12c 6-80-12d |
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्। तदाक्षया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि ।। | 6-80-13a 6-80-13b 6-80-13c 6-80-13d |
प्रहर्षयुक्तानि तु तानि राज- न्महान्ति नानाविधशस्त्रवन्ति। स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि ।। | 6-80-14a 6-80-14b 6-80-14c 6-80-14d |
शस्त्रास्त्रविद्भिर्नरवीरयोधै- रधिष्ठिताः सैन्यगणास्त्वदीयाः। रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ।। | 6-80-15a 6-80-15b 6-80-15c 6-80-15d |
समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यश्मीन्। रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ।। | 6-80-16a 6-80-16b 6-80-16c 6-80-16d |
नानालिङ्गैः समरे तत्र राजन् मेघैर्युता विद्युतः खे यथैव। वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता- श्चकाशिरे दन्तिगणाः समन्तात् ।। | 6-80-17a 6-80-17b 6-80-17c 6-80-17d |
धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः। विमथ्यतो देवमहासुरौघै- र्यथार्णवस्यादियुगे तदानीम् ।। | 6-80-18a 6-80-18b 6-80-18c 6-80-18d |
तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम् । बभूव सैन्यं रिपुसैन्यहन्त- युगान्तमेघौघनिभं तदानीम् ।। | 6-80-19a 6-80-19b 6-80-19c 6-80-19d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ।। |
भीष्मपर्व-079 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-081 |