महाभारतम्-06-भीष्मपर्व-021
दिखावट
| ← भीष्मपर्व-020 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-021 वेदव्यासः |
भीष्मपर्व-022 → |
|
परसेनादर्शनचकितं युधिष्ठिरं प्रत्यर्जुनेन सयुक्तिनिरूपणं समाश्वासनम् ।। 1 ।।
| सञ्जय उवाच। | 6-21-1x |
|
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ।। | 6-21-1a 6-21-1b |
|
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत् ।। | 6-21-2a 6-21-2b |
|
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे । धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ।। | 6-21-3a 6-21-3b |
|
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा । कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा ।। | 6-21-4a 6-21-4b |
|
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण । कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति ।। | 6-21-5a 6-21-5b |
|
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा । विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम् ।। | 6-21-6a 6-21-6b |
|
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि । जयन्त्यल्पतरा येन तन्निबोध विशांपते ।। | 6-21-7a 6-21-7b |
|
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे । नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ।। | 6-21-8a 6-21-8b |
|
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ।। | 6-21-9a 6-21-9b |
|
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः । यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।। | 6-21-10a 6-21-10b |
|
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः । युध्यध्वमतहंकारा यतो धर्मस्ततो जयः ।। | 6-21-11a 6-21-11b |
|
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ।। | 6-21-12a 6-21-12b |
|
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् । तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः ।। | 6-21-13a 6-21-13b |
|
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः ।। | 6-21-14a 6-21-14b |
|
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ।। | 6-21-15a 6-21-15b |
|
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् । तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ।। | 6-21-16a 6-21-16b |
|
तस्य ते न व्यथां कांचिदिह पश्यामि भारत । यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः ।। | 6-21-17a 6-21-17b |
|
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकविंशोऽध्यायः ।। |
6-21-13 गुणभूतो दासभूतः ।। 6-21-15 अकुण्ठसायकः अप्रतिहतायुधः ।।
| भीष्मपर्व-020 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-022 |