महाभारतम्-06-भीष्मपर्व-063
दिखावट
← भीष्मपर्व-062 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-063 वेदव्यासः |
भीष्मपर्व-064 → |
|
सात्यकिभूरिश्रवसोः समागमः ।। 1 ।।
सञ्जय उवाच। | 6-63-1x |
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव। भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ।। | 6-63-1a 6-63-1b |
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्। अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ।। | 6-63-2a 6-63-2b |
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् । आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ।। | 6-63-3a 6-63-3b |
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् । अनन्तरथपादातं रजसा सर्वतो वृतम् ।। | 6-63-4a 6-63-4b |
तं भीमसेनः समरे महोदधिमिवापरम् । सेनासागरमक्षोभ्यं वेलेव समवारयत् ।। | 6-63-5a 6-63-5b |
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः । भीमसेनस्य समरे राजन्कर्मातिमानुषम् ।। | 6-63-6a 6-63-6b |
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् । असंभ्रमं भीमसेनो गदया समवारयत् ।। | 6-63-7a 6-63-7b |
स संवार्य बलौघांस्तन्गदया रथिनां वरः। अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ।। | 6-63-8a 6-63-8b |
तस्मिन्सुतुमुले घोरे काले परमदारुणे। भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः।। | 6-63-9a 6-63-9b |
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः । न प्राजहन्भीमसेनं भये जाते महाबलम् ।। | 6-63-10a 6-63-10b |
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्। अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ।। | 6-63-11a 6-63-11b |
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः । कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ।। | 6-63-12a 6-63-12b |
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः । ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।। | 6-63-13a 6-63-13b |
बलानि संममर्दाशु नड्वलानीव कुञ्जरः । मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।। | 6-63-14a 6-63-14b |
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः । गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ।। | 6-63-15a 6-63-15b |
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले। सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ।। | 6-63-16a 6-63-16b |
अदृश्यत महारौद्रा गदा नागाश्वपातनी। तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ।। | 6-63-17a 6-63-17b |
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् । पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।। | 6-63-18a 6-63-18b |
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् । ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ।। | 6-63-19a 6-63-19b |
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः । बभौ रूपं महाघोरं कालस्येव युगक्षये ।। | 6-63-20a 6-63-20b |
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः । दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ।। | 6-63-21a 6-63-21b |
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः। तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ।। | 6-63-22a 6-63-22b |
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् । ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।। | 6-63-23a 6-63-23b |
तं तथा भीमकर्माणं प्रगृहीतमहागदम् । दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ।। | 6-63-24a 6-63-24b |
महता रथघोषेण रथेनादित्यवर्चसा । छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ।। | 6-63-25a 6-63-25b |
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् । भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ।। | 6-63-26a 6-63-26b |
तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम्। निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम् ।। | 6-63-27a 6-63-27b 6-63-27c 6-63-27d |
तं यान्तमश्वै रजतप्रकाशैः शरान्वपन्तं निशितान्सुपुङ्खान्। नाशक्नवन्धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ।। | 6-63-28a 6-63-28b 6-63-28c 6-63-28d |
अविध्यदेनं दशभिः पृषत्कैः- रलम्बुसो राक्षसोऽसौ तदानीम् । शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन ।। | 6-63-29a 6-63-29b 6-63-29c 6-63-29d |
अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम्। प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ ।। | 6-63-30a 6-63-30b 6-63-30c 6-63-30d |
योधास्त्वदीयाः शरवर्षैरवर्ष- न्मेघा यथा भूधरमम्बुवेगैः । तथापि तं धारयितुं न शेकु- र्मध्यंदिने सूर्यमिवातपन्तम् ।। | 6-63-31a 6-63-31b 6-63-31c 6-63-31d |
न तत्र कश्चिन्नविषण्ण आसी- दृते राजन्सोमदत्तस्य पुत्रात्। स वै समादाय धनुर्महात्मा भिरिश्रवा भारत सौमदत्तिः ।। | 6-63-32a 6-63-32b 6-63-32c 6-63-32d |
दृष्ट्वा रथान्स्वान्व्यपनीयमाना- न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ।। | 6-63-33a 6-63-33b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ।। |
भीष्मपर्व-062 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-064 |