महाभारतम्-06-भीष्मपर्व-090
दिखावट
← भीष्मपर्व-089 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-090 वेदव्यासः |
भीष्मपर्व-091 → |
|
अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ।। 1 ।। आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ।। 2 ।।
सञ्जय उवाच। | 6-90-1x |
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये। शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ।। | 6-90-1a 6-90-1b |
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ।। | 6-90-2a 6-90-2b |
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ।। | 6-90-3a 6-90-3b |
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ।। | 6-90-4a 6-90-4b |
ये चापरे तित्तिरिजा जवना वातरंहसः । सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ।। | 6-90-5a 6-90-5b |
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली । अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ।। | 6-90-6a 6-90-6b |
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ।। | 6-90-7a 6-90-7b |
ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ।। | 6-90-8a 6-90-8b |
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ।। | 6-90-9a 6-90-9b |
स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ।। | 6-90-10a 6-90-10b |
खमुत्पत्य महाराज नागराट् सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ।। | 6-90-11a 6-90-11b |
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ।। | 6-90-12a 6-90-12b |
न्यवेदयत चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ।। | 6-90-13a 6-90-13b |
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ।। | 6-90-14a 6-90-14b |
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः । प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ।। | 6-90-15a 6-90-15b |
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ।। | 6-90-16a 6-90-16b |
`स चापि नरशार्दूलः शार्दूलसमविक्रमः।' अब्रवीच्च तदा पार्थमयमस्मि तवानघ ।। | 6-90-17a 6-90-17b |
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् । कं करोमि च ते कामं कं च कामं त्वमिच्छसि ।। | 6-90-18a 6-90-18b |
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्। प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ।।' | 6-90-19a 6-90-19b |
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति । बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ।। | 6-90-20a 6-90-20b |
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः । ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ।। | 6-90-21a 6-90-21b |
उत्पेतुः सहसा राजन्हंसा इव महोदधौ । ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ।। | 6-90-22a 6-90-22b |
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् । निपेतुः सहसा राजन्सुवेगाभिहता भुवि ।। | 6-90-23a 6-90-23b |
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ।। | 6-90-24a 6-90-24b |
तथैव तावका राजन्समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ।। | 6-90-25a 6-90-25b |
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ।। | 6-90-26a 6-90-26b |
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ।। | 6-90-27a 6-90-27b |
ततः क्षीणे हयानिके किंचिच्छेषे च भारत । सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ।। | 6-90-28a 6-90-28b |
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ।। | 6-90-29a 6-90-29b |
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः। षडेते बलसंपन्ना निर्ययुर्महतो बलात् ।। | 6-90-30a 6-90-30b |
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ।। | 6-90-31a 6-90-31b |
तदनीकं महाबहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ।। | 6-90-32a 6-90-32b |
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः । तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ।। | 6-90-33a 6-90-33b |
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् । यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ।। | 6-90-34a 6-90-34b |
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् । बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ।। | 6-90-35a 6-90-35b |
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः । तदनीकमनीकेन समरे वीक्ष्य पातितम् ।। | 6-90-36a 6-90-36b |
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे । इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ।। | 6-90-37a 6-90-37b |
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्। ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ।। | 6-90-38a 6-90-38b |
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ।। | 6-90-39a 6-90-39b |
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ।। | 6-90-40a 6-90-40b |
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरंजयः ।। | 6-90-41a 6-90-41b |
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ।। | 6-90-42a 6-90-42b |
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् । पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ।। | 6-90-43a 6-90-43b |
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ।। | 6-90-44a 6-90-44b |
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ।। | 6-90-45a 6-90-45b |
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ।। | 6-90-46a 6-90-46b |
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ।। | 6-90-47a 6-90-47b |
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत । असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ।। | 6-90-48a 6-90-48b |
आयुधानि च सर्वेषां बाहूनपि विभूषितान्। अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ।। | 6-90-49a 6-90-49b |
वृषकस्तु महाराज बहुधा विपरिक्षतः। अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ।। | 6-90-50a 6-90-50b |
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः। अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ।। | 6-90-51a 6-90-51b |
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्। वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ।। | 6-90-52a 6-90-52b |
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली। मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ।। | 6-90-53a 6-90-53b |
त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ।। | 6-90-54a 6-90-54b |
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ।। | 6-90-55a 6-90-55b |
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ।। | 6-90-56a 6-90-56b |
[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम् ।। | 6-90-57a 6-90-57b |
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ।। | 6-90-58a 6-90-58b |
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः। त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ।। | 6-90-59a 6-90-59b |
तेन मायामयाः सृष्टा हयास्तावन्त एव हि। स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ।। | 6-90-60a 6-90-60b |
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद्गमयामासुः प्रेतलोकं परस्परम् ।। | 6-90-61a 6-90-61b |
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ।। | 6-90-62a 6-90-62b |
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावाथ संरब्धः प्रत्यधावन्महाबलः ।। | 6-90-63a 6-90-63b |
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः । चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ।। | 6-90-64a 6-90-64b |
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया ।। | 6-90-65a 6-90-65b |
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ।। | 6-90-66a 6-90-66b |
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः । तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ।। | 6-90-67a 6-90-67b |
संबभूव महाराज समवाप च यौवनम् । माया हि सहराज समवाप च यौवनम् ।। | 6-90-68a 6-90-68b |
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत । इरावानपि संक्रुद्धो राक्षसं त महाबलम् ।। | 6-90-69a 6-90-69b |
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः ।। | 6-90-70a 6-90-70b |
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्। परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ।। | 6-90-71a 6-90-71b |
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ।। | 6-90-72a 6-90-72b |
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे । अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ।। | 6-90-73a 6-90-73b |
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ।। | 6-90-74a 6-90-74b |
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ।। | 6-90-75a 6-90-75b |
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान्संवृतो रणे ।। | 6-90-76a 6-90-76b |
दधार सुमहद्रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागैश्छादयामास राक्षसम् ।। | 6-90-77a 6-90-77b |
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ।। | 6-90-78a 6-90-78b |
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ।। | 6-90-79a 6-90-79b |
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ।। | 6-90-80a 6-90-80b |
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ।। | 6-90-81a 6-90-81b |
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः। महान्व्यतिकरो घोरः सेनयोः समपद्यत ।। | 6-90-82a 6-90-82b |
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ।। | 6-90-83a 6-90-83b |
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिर्निहता राजंस्तव तेषां च संकुले ।। | 6-90-84a 6-90-84b |
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ।। | 6-90-85a 6-90-85b |
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः। जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ।। | 6-90-86a 6-90-86b |
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ।। | 6-90-87a 6-90-87b |
तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन्समरे सेनां पाण्डवानां परंतपः ।। | 6-90-88a 6-90-88b |
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ।। | 6-90-89a 6-90-89b |
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ।। | 6-90-90a 6-90-90b |
तथैव भीमसेनस्य पार्षतस्य च भारत। रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ।। | 6-90-91a 6-90-91b |
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ।। | 6-90-92a 6-90-92b |
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः। इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः।। | 6-90-93a 6-90-93b |
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ।। | 6-90-94a 6-90-94b |
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ।। | 6-90-95a 6-90-95b |
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति। दैवासुराभे समरे तस्मिन्योधा नराधिप ।। | 6-90-96a 6-90-96b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे नवतितमोऽध्यायः ।। |
6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः संबन्धः ।। 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ।। 6-90-7 नागराजस्य ऐरावतस्य ।। 6-90-10 पितृव्येण अश्वसेनेन ।। 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ।। 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ।।
भीष्मपर्व-089 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-091 |