महाभारतम्-06-भीष्मपर्व-089
पठन सेटिंग्स
← भीष्मपर्व-088 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-089 वेदव्यासः |
भीष्मपर्व-090 → |
|
धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम् ।। 1 ।।
धृतराष्ट्र उवाच। | 6-89-1x |
दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय । भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे।। | 6-89-1a 6-89-1b |
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय । मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ।। | 6-89-2a 6-89-2b |
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत । यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ।। | 6-89-3a 6-89-3b |
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः । अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ।। | 6-89-4a 6-89-4b |
अन्येषां चैव शूराणां मध्यगास्तनया मम । यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ।। | 6-89-5a 6-89-5b |
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत । वार्यमाणो मया तात भीष्मेण विदुरेण च ।। | 6-89-6a 6-89-6b |
गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया । नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ।। | 6-89-7a 6-89-7b |
यद्भीमसेनः समरे पुत्रान्मम विचेतसः । अहन्यहनि संक्रुद्धो नयते यमसादनम् ।। | 6-89-8a 6-89-8b |
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् । न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ।। | 6-89-9a 6-89-9b |
निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च । सुहृदां हितकामानां ब्रुवतां तत्तदेव च ।। | 6-89-10a 6-89-10b |
न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् । तदिदं समनुप्राप्तं वचनं साधु भाषितम् ।। | 6-89-11a 6-89-11b |
विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् । अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ।। | 6-89-12a 6-89-12b |
तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय। तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ।। | 6-89-13a 6-89-13b |
सञ्जय उवाच। | 6-89-14x |
मध्याह्ने मुमहारौद्रः संग्रामः समुपद्यत। लकक्षयकरो राजंस्तन्मे निगदतः शृणु ।। | 6-89-14a 6-89-14b |
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ।। | 6-89-15a 6-89-15b |
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । युक्तानीका महाराज भीष्ममेव समभ्ययुः ।। | 6-89-16a 6-89-16b |
विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः । अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ।। | 6-89-17a 6-89-17b |
केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः । शुक्तानीका महाराज भीष्ममेव समभ्ययुः ।। | 6-89-18a 6-89-18b |
अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः । दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ।। | 6-89-19a 6-89-19b |
अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः । भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ।। | 6-89-20a 6-89-20b |
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवै राजन्नवध्यन्त परे रणे ।। | 6-89-21a 6-89-21b |
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह । अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ।। | 6-89-22a 6-89-22b |
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् । वध्यतां समरे राजन्भारद्वाजेन धन्विना ।। | 6-89-23a 6-89-23b |
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ।। | 6-89-24a 6-89-24b |
कूजतां क्रन्दतां चैव स्तनतां चैव भारत। अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ।। | 6-89-25a 6-89-25b |
तथैव कौरवेयाणां भीमसेनो महाबलः । चकार कदनं घोरं क्रुद्धः काल इवापरः ।। | 6-89-26a 6-89-26b |
वध्यतां तत्र सैन्यानामन्योन्येन महारणे । प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ।। | 6-89-27a 6-89-27b |
स संग्रामो महाराज घोररूपोऽभवन्महान् । कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ।। | 6-89-28a 6-89-28b |
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे ।। | 6-89-29a 6-89-29b |
तत्र भारत भीमेन नाराचाभिहता गजाः । पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ।। | 6-89-30a 6-89-30b |
छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष । क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ।। | 6-89-31a 6-89-31b |
नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ।। | 6-89-32a 6-89-32b |
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः। पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ।। | 6-89-33a 6-89-33b |
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः । हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ।। | 6-89-34a 6-89-34b |
अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः । प्रबभौ वसुधा घोरा तत्रतत्र विशांपते ।। | 6-89-35a 6-89-35b |
रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः । चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ।। | 6-89-36a 6-89-36b |
हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः । उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ।। | 6-89-37a 6-89-37b |
अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः । संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ।। | 6-89-38a 6-89-38b |
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ।। | 6-89-39a 6-89-39b |
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ।। | 6-89-40a 6-89-40b |
।। इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकोननवतितमोऽध्यायः ।। |
6-89-25 कूजतां अव्यक्तं ध्वनताम्। स्तनतां उच्चैः शब्दायमानानाम् ।। 6-89-37 निष्कैरुरोभूषणैः ।। 6-89-38 योक्रैरीषायोजनरज्जुभिः रश्मिभिरश्वबन्धनरज्जुभिः ।।
भीष्मपर्व-088 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-090 |