महाभारतम्-06-भीष्मपर्व-106

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-105 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-106
वेदव्यासः
भीष्मपर्व-107 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम् ।। 1 ।। अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम् ।। 2 ।।

सञ्जय उवाच। 6-106-1x
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः।
आजघान रणे पार्थान्सहसेनान्समन्ततः ।।
6-106-1a
6-106-1b
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।
नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ।।
6-106-2a
6-106-2b
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्।
धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ।।
6-106-3a
6-106-3b
तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः ।
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः ।
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ।।
6-106-4a
6-106-4b
6-106-4c
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ।।
6-106-5a
6-106-5b
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ।।
6-106-6a
6-106-6b
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।
संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ।।
6-106-7a
6-106-7b
6-106-7c
तथैवान्ये महीपाला नानादेशसमागताः ।
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ।
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ।।
6-106-8a
6-106-8b
6-106-8c
स समन्तात्परिवृतो रथौघैरपराजितः ।
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ।।
6-106-9a
6-106-9b
रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः ।
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ।।
6-106-10a
6-106-10b
` यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।'
तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।।
6-106-11a
6-106-11b
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।
कर्णिनालीकनाराचैश्छादयामास तद्बलम् ।।
6-106-12a
6-106-12b
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।
मुण्डतालवनानीव चकार स रथव्रजान् ।।
6-106-13a
6-106-13b
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे।
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ।।
6-106-14a
6-106-14b
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः।
निशम्य सर्वभूतानि समकम्पन्त भारत ।।
6-106-15a
6-106-15b
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ।
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ।।
6-106-16a
6-106-16b
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।
अपश्याम महाराज ह्रियमाणान्रणाजिरे ।।
6-106-17a
6-106-17b
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कलपुत्रास्तनुत्यजः ।
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः।।
6-106-18a
6-106-18b
6-106-18c
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्।
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ।।
6-106-19a
6-106-19b
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत।
अपश्याम महाराज शतशोऽथ सहस्रशः ।।
6-106-20a
6-106-20b
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।
शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते ।।
6-106-21a
6-106-21b
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः ।
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ।।
6-106-22a
6-106-22b
बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः।
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः।
चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ।।
6-106-23a
6-106-23b
6-106-23c
गजारोहा गजान्राजन्हयांश्च हयसादिनः ।
अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ।।
6-106-24a
6-106-24b
यतमानाश्च ते वीरा द्रवमाणान्महारथान्।
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ।।
6-106-25a
6-106-25b
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।
अभज्यत महाराज न च द्वौ समधावताम् ।।
6-106-26a
6-106-26b
आविद्धरथनागाश्वं पतितध्वजसंकुलम् ।
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।।
6-106-27a
6-106-27b
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ।
प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ।।
6-106-28a
6-106-28b
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ।।
6-106-29a
6-106-29b
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् ।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।।
6-106-30a
6-106-30b
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।।
6-106-31a
6-106-31b
श्रीभगवानुवाच। 6-106-32x
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव।
प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ।।
6-106-32a
6-106-32b
यत्पुरा कथितं वीर त्वया राज्ञां समागमे।
विराटनगरे तात सञ्जयस्य समीपतः ।।
6-106-33a
6-106-33b
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ।।
6-106-34a
6-106-34b
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम।
क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ।।
6-106-35a
6-106-35b
सञ्जय उवाच। 6-106-36x
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः।
अकाम इव बीभत्सुरिदं वचनमब्रवीत् ।।
6-106-36a
6-106-36b
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ।
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ।।
6-106-37a
6-106-37b
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव।
पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ।।
6-106-38a
6-106-38b
सञ्जय उवाच। 6-106-39x
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः।
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ।
6-106-39a
6-106-39b
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ।।
6-106-40a
6-106-40b
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।
धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ।।
6-106-41a
6-106-41b
क्षणेन स रथस्तस्य सहयः सहसारथिः ।
शरवर्षेण महता न प्राज्ञायत भारत ।।
6-106-42a
6-106-42b
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः ।
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ।।
6-106-43a
6-106-43b
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ।।
6-106-44a
6-106-44b
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ।।
6-106-45a
6-106-45b
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ।।
6-106-46a
6-106-46b
6-106-46c
गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम।
साधुसाधु महाबाहो साधु कुन्तीसुतेति च ।।
6-106-47a
6-106-47b
समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः।
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ।।
6-106-48a
6-106-48b
अदर्शयद्वसुदेवो हययाने परं बलम्।
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ।।
6-106-49a
6-106-49b
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ।।
6-106-50a
6-106-50b
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।।
6-106-51a
6-106-51b
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।।
6-106-52a
6-106-52b
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।
नामृष्यत महाबाहुर्माधवः परवीरहा ।।
6-106-53a
6-106-53b
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष ।
वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ।।
6-106-54a
6-106-54b
अभिदुद्राव भीष्मं स भुजप्रहरणो बली।
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ।।
6-106-55a
6-106-55b
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः ।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ।।
6-106-56a
6-106-56b
ग्रसन्निव च तेजांसि तावकानां महाहवे ।
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ।।
6-106-57a
6-106-57b
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः ।
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ।।
6-106-58a
6-106-58b
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ।।
6-106-59a
6-106-59b
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् ।
अभिदुद्राव वेगेन विनदन्यादवर्षभः ।।
6-106-60a
6-106-60b
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे।
असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।
उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ।।
6-106-61a
6-106-61b
6-106-61c
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते ।
मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ।।
6-106-62a
6-106-62b
त्वया हि देव संग्रामे हतस्यापि ममानघ ।
श्रेय एव परं कृष्ण लोके भवति सर्वतः ।।
6-106-63a
6-106-63b
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे।
प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ।।
6-106-64a
6-106-64b
सञ्जय उवाच। 6-106-65x
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् ।
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ।।
6-106-65a
6-106-65b
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ।
जगामैवैनमादाय वेगेन पुरुषोत्तमः ।।
6-106-66a
6-106-66b
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ।
निजग्राह हृषीकेशं कथंचिद्दशमे पदे ।।
6-106-67a
6-106-67b
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।
निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ।।
6-106-68a
6-106-68b
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ।
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ।।
6-106-69a
6-106-69b
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव ।
ममैष भारः सर्वो हि हनिष्यामि पितामहम् ।।
6-106-70a
6-106-70b
शपे केशव शस्त्रेण सत्येन सुकृतेन च।
अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ।।
6-106-71a
6-106-71b
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् ।
तारापतिमिवापूर्णमन्तकाले यदृच्छया ।।
6-106-72a
6-106-72b
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः।
`अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्'।
न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ।।
6-106-73a
6-106-73b
6-106-73c
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः।
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ।।
6-106-74a
6-106-74b
प्राणानादत्त योधानां पिता देवव्रतस्तव।
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ।।
6-106-75a
6-106-75b
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः ।
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ।।
6-106-76a
6-106-76b
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ।।
6-106-77a
6-106-77b
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ।
ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ।।
6-106-78a
6-106-78b
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्।
वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः ।।
6-106-79a
6-106-79b
तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत।
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव।
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ।।
6-106-80a
6-106-80b
6-106-80c
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना।
समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ।।
6-106-81a
6-106-81b
महारथं भारत दुष्प्रकम्पं
शरौघिणं प्रतपन्तं नरेन्द्रान्।
भीष्मं न शेकुः प्रतिवीक्षितुं ते
शरार्चिषं सूर्यमिवातपन्तम् ।।
6-106-82a
6-106-82b
6-106-82c
6-106-82d
विमृद्गतस्तस्य तु पाण्डुसेना-
मस्तं जगामाथ सहस्ररश्मिः।
ततो हि भीष्मः सबलान्ससैन्या-
न्न्यवारयत्पाण्डुसुताञ्शरौघैः ।।
6-106-83a
6-106-83b
6-106-83c
6-106-83d
मनोऽवहारं प्रति संबभूव ।। 6-106-84f
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
नवमदिवसयुद्धे षडधिकशततमोऽध्यायः ।।
भीष्मपर्व-105 पुटाग्रे अल्लिखितम्। भीष्मपर्व-107