महाभारतम्-06-भीष्मपर्व-057
दिखावट
← भीष्मपर्व-056 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-057 वेदव्यासः |
भीष्मपर्व-058 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-57-1x |
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च। धनञ्जयो रथानीकमवधीत्तव भारत ।। | 6-57-1a 6-57-1b |
शरैरथिरथो युद्धे दारयन्रथयूथपान् । ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।। | 6-57-2a 6-57-2b |
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् । प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ।। | 6-57-3a 6-57-3b |
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् । बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ।। | 6-57-4a 6-57-4b |
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ।। | 6-57-5a 6-57-5b |
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्। न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ।। | 6-57-6a 6-57-6b |
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। अवर्तत तदा युद्धं तत्र तत्र विशांपते ।। | 6-57-7a 6-57-7b |
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन । रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ।। | 6-57-8a 6-57-8b |
तथैव पाण्डवानां च रक्षितः सव्यसाचिना। नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ।। | 6-57-9a 6-57-9b |
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः । उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ।। | 6-57-10a 6-57-10b |
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ।। | 6-57-11a 6-57-11b |
रथी रथिनमासाद्य शरैः कनकभूषणैःक । पातयामास समरे तस्मिन्नतिभयंकरे ।। | 6-57-12a 6-57-12b |
गजारोहा गजारोहान्नाराचशरतोमरैः । संसक्तान्पातयामासुस्तव तेषां च सर्वशः ।। | 6-57-13a 6-57-13b |
कश्चिदुत्पत्य समरे वस्वारणमास्थितः । केशपक्षे परामृश्य जहार समरे शिरः ।। | 6-57-14a 6-57-14b |
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे। वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ।। | 6-57-15a 6-57-15b |
कश्चित्करिविषाणस्थो वीरो रणविशारदाः । प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ।। | 6-57-16a 6-57-16b |
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः । न्यतापतयन्त संहृष्टाः परस्परकृतागसः ।। | 6-57-17a 6-57-17b |
रथी च समरे राजन्नासाद्य गजयूथपम् । स गजं पातयामास गजी च रथिनां वरम् ।। | 6-57-18a 6-57-18b |
रथिनं च हयारोहः प्रासेन भरतर्षभ । पातयामास समरे रथी च हयसादिनम् ।। | 6-57-19a 6-57-19b |
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् । न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ।। | 6-57-20a 6-57-20b |
गजारोहा हयारोहान्पातयांचक्रिरे तदा। हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ।। | 6-57-21a 6-57-21b |
गजारोहवरैश्चापि तत्रतत्र पदातयः। पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ।। | 6-57-22a 6-57-22b |
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः । पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।। | 6-57-23a 6-57-23b |
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा। प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ।। | 6-57-24a 6-57-24b |
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि। निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ।। | 6-57-25a 6-57-25b |
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः । भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ।। | 6-57-26a 6-57-26b |
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे । अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।। | 6-57-27a 6-57-27b |
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः । दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ।। | 6-57-28a 6-57-28b |
उत्थितान्यगणेयानि कबन्धानि समन्ततः। चिह्नभूतानि जगतो विनाशार्थाय भारत ।। | 6-57-29a 6-57-29b |
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे । प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ।। | 6-57-30a 6-57-30b |
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः । पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ।। | 6-57-31a 6-57-31b |
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः। पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ।। | 6-57-32a 6-57-32b |
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः । सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत।। | 6-57-33a 6-57-33b |
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः । द्रावयामासुराजौ ते त्रिदशा दानवानिव ।। | 6-57-34a 6-57-34b |
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः । रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ।। | 6-57-35a 6-57-35b |
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि। व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ।। | 6-57-36a 6-57-36b |
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ।। | 6-57-37a 6-57-37b |
तथैव पाण्डवाः सर्वे महत्या सेनया सह । द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ।। | 6-57-38a 6-57-38b |
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् । आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ।। | 6-57-39a 6-57-39b |
ततः प्रववृते भूयः संग्रामो रोमहर्षणः । तावकानां परेषां च समरे विजयैषिणाम् ।। | 6-57-40a 6-57-40b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ।। |
6-57-3 मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ।। 6-57-7 अनुमानेन ध्वजादिचिह्नेन। संज्ञाभि संकेतैश्च ।। 6-57-26 परिकस्तोमैश्चित्रकम्बलैः । कुथाभिस्तैरेव क्षुद्रैः । कम्बलै राङ्कवैः । महाधनैर्महामूल्यैः ।। 6-57-36 महामात्राः प्रधानाः ।।
भीष्मपर्व-056 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-058 |