महाभारतम्-06-भीष्मपर्व-086
दिखावट
← भीष्मपर्व-085 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-086 वेदव्यासः |
भीष्मपर्व-087 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-86-1x |
विरथं तं समासाद्य चित्रसेनं यशस्विनम् । रथमारोपयामास विकर्णस्तनयस्तव ।। | 6-86-1a 6-86-1b |
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ।। | 6-86-2a 6-86-2b |
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः । मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ।। | 6-86-3a 6-86-3b |
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः । महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ।। | 6-86-4a 6-86-4b |
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि । भीष्मं संछादयामास यथा मेघो दिवाकरम् ।। | 6-86-5a 6-86-5b |
तेन सम्यक्प्रणीतानि शरजालानि मारिष । प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः ।। | 6-86-6a 6-86-6b |
तथैव शरजालानि भीष्मोणास्तानि मारिष । आकाशे समदृश्यन्त स्वगमानां व्रजा इव ।। | 6-86-7a 6-86-7b |
निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि । अदृश्यं समरे चक्रे शरजालेन भारत ।। | 6-86-8a 6-86-8b |
ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः । नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ।। | 6-86-9a 6-86-9b |
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः । चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ।। | 6-86-10a 6-86-10b |
तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् । नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ।। | 6-86-11a 6-86-11b |
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनःक ।। | 6-86-12a 6-86-12b |
यमावपि हि संक्रुद्धः समासाद्य रणे तदा । शरैः संछादयामास भीष्मः परपुरंजयः ।। | 6-86-13a 6-86-13b |
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ।। | 6-86-14a 6-86-14b |
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ।। | 6-86-15a 6-86-15b |
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम् ।। | 6-86-16a 6-86-16b |
स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीड धनुषा राजन्पातयानो महारथान् ।। | 6-86-17a 6-86-17b |
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ।। | 6-86-18a 6-86-18b |
तर्जयानं रमे वीरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ।। | 6-86-19a 6-86-19b |
रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ।। | 6-86-20a 6-86-20b |
शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्यः परिपक्वानि फलानि कुशलो नरः ।। | 6-86-21a 6-86-21b |
पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव ।। | 6-86-22a 6-86-22b |
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ।। | 6-86-23a 6-86-23b |
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् । एकमेकं समाहूय युद्धायैवावतस्थिरे ।। | 6-86-24a 6-86-24b |
शिखण्डी तु समासाद्य भरतानां पितामहम् । अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।। | 6-86-25a 6-86-25b |
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे । प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन् ।। | 6-86-26a 6-86-26b |
सृंजयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे । सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ।। | 6-86-27a 6-86-27b |
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो ।। | 6-86-28a 6-86-28b |
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः । पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ।। | 6-86-29a 6-86-29b |
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे । ते हन्यमानाः समरे तावका भरतर्षभ ।। | 6-86-30a 6-86-30b |
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्। यथोत्साहं तु समरे निजघ्नुस्तावका रणे ।। | 6-86-31a 6-86-31b |
तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् । वध्यतां समरे राजन्पार्षतेन महात्मना ।। | 6-86-32a 6-86-32b |
तं श्रुत्वा निनदं घोरं तावकानां महारथौ । विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ।। | 6-86-33a 6-86-33b |
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ । छादयामासतुरुभौ शरवर्षेण पार्षतम् ।। | 6-86-34a 6-86-34b |
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः । आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः ।। | 6-86-35a 6-86-35b |
ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ।। | 6-86-36a 6-86-36b |
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष । विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ।। | 6-86-37a 6-86-37b |
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभः । अयोधयत संग्रामे वज्रपाणिरिवासुरान् ।। | 6-86-38a 6-86-38b |
द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव । व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ।। | 6-86-39a 6-86-39b |
दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते । परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ।। | 6-86-40a 6-86-40b |
ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ।। | 6-86-41a 6-86-41b |
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे अप्रकाशति भास्करे ।। | 6-86-42a 6-86-42b |
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी । गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे ।। | 6-86-43a 6-86-43b |
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्। घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ।। | 6-86-44a 6-86-44b |
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः । समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ।। | 6-86-45a 6-86-45b |
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ।। | 6-86-46a 6-86-46b |
युधिष्टिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः ।। | 6-86-47a 6-86-47b |
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् । अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ।। | 6-86-48a 6-86-48b |
दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ।। | 6-86-49a 6-86-49b |
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः । परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति ।। | 6-86-50a 6-86-50b |
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान्ययतुः शिबिरं प्रति ।। | 6-86-51a 6-86-51b |
एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परंतप ।। | 6-86-52a 6-86-52b |
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा । न्यवसन्त महाराज पूजयन्तः परस्परम् ।। | 6-86-53a 6-86-53b |
रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि। अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ।। | 6-86-54a 6-86-54b |
कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः । गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ।। | 6-86-55a 6-86-55b |
मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् । न हि युद्धकथां कांचित्तत्राकुर्वन्महारथाः ।। | 6-86-56a 6-86-56b |
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप । हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ।। | 6-86-57a 6-86-57b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे षडशीतितमोऽध्यायः ।। |
भीष्मपर्व-085 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-087 |