महाभारतम्-06-भीष्मपर्व-033
दिखावट
← भीष्मपर्व-032 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-033 वेदव्यासः |
भीष्मपर्व-034 → |
|
त्रयस्त्रिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 9 ।।
श्रीभगवानुवाच। | 6-33-1x |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। | 6-33-1a 6-33-1b |
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ।। | 6-33-2a 6-33-2b |
अश्रद्दधानां पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ।। | 6-33-3a 6-33-3b |
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितःक ।। | 6-33-4a 6-33-4b |
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।। | 6-33-5a 6-33-5b |
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। | 6-33-6a 6-33-6b |
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। | 6-33-7a 6-33-7b |
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। | 6-33-8a 6-33-8b |
न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ।। | 6-33-9a 6-33-9b |
मयाऽऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ।। | 6-33-10a 6-33-10b |
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। | 6-33-11a 6-33-11b |
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। | 6-33-12a 6-33-12b |
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। | 6-33-13a 6-33-13b |
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ।। | 6-33-14a 6-33-14b |
ज्ञानयज्ञेन चाप्यन्ते यजन्तो मामुपासते। एकत्वेन पृथक्त्कवेन बहुधा विश्वतोमुम् ।। | 6-33-15a 6-33-15b |
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ।। | 6-33-16a 6-33-16b |
पिताऽहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ।। | 6-33-17a 6-33-17b |
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। | 6-33-18a 6-33-18b |
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।। | 6-33-19a 6-33-19b |
त्रैविद्या मां सोमपाः पूतपापा यज्ञेरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोक- मश्रन्ति दिव्यान्दिवि देवभोगान् ।। | 6-33-20a 6-33-20b 6-32-20c 6-30-20d |
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणो पुण्ये पर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ।। | 6-33-21a 6-33-21b 6-33-21c 6-33-21d |
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। | 6-33-22a 6-33-22b |
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। | 6-33-23a 6-33-23b |
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।। | 6-33-24a 6-33-24b |
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् | 6-33-25a 6-33-25b |
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। | 6-33-26a 6-33-26b |
यत्करोषि यदश्रासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। | 6-33-27a 6-33-27b |
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। | 6-33-28a 6-33-28b |
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। | 6-33-29a 6-33-29b |
अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।। | 6-33-30a 6-33-30b |
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । | 6-33-31a 6-33-31b |
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिं ।। | 6-33-32a 6-33-32b |
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।। | 6-33-33a 6-33-33b |
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।। | 6-33-34a 6-33-34b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयस्त्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः ।। |
भीष्मपर्व-032 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-034 |