महाभारतम्-06-भीष्मपर्व-107

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-106 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-107
वेदव्यासः
भीष्मपर्व-108 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

युधिष्ठिरेण कृष्णेनसह संमन्त्र्य रात्रौ भीष्ममेत्य तद्वधोपायकथनप्रार्थना ।। 1 ।। तंप्रति भीष्मेण तत्कथनम् ।। 2 ।।

सञ्जय उवाच। 6-107-1x
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ।।
6-107-1a
6-107-1b
ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ।।
6-107-2a
6-107-2b
स्वसैन्यं च परावृत्तं पलायनपरायणम्।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ।।
6-107-3a
6-107-3b
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्।
` निशामुखं च संप्रेक्ष्य घोररूपं भयानकम्।'
चिन्तयित्वा ततो राज्ञामपहारमकारयत् ।।
6-107-4a
6-107-4b
6-107-4c
ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामपहारे ह्यभूत्तदा ।।
6-107-5a
6-107-5b
ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ।।
6-107-6a
6-107-6b
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ।।
6-107-7a
6-107-7b
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान्।
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ।।
6-107-8a
6-107-8b
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ।।
6-107-9a
6-107-9b
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ।।
6-107-10a
6-107-10b
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ।।
6-107-11a
6-107-11b
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ।।
6-107-12a
6-107-12b
कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्गन्तं बलं मम ।।
6-107-13a
6-107-13b
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ।।
6-107-14a
6-107-14b
यथा घोरो महानागस्तक्षको वै विषोल्बणः।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ।।
6-107-15a
6-107-15b
गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान्।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ।।
6-107-16a
6-107-16b
वरुणः पाशभृच्चापि सगदो वा धनेश्वरः ।
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ।।
6-107-17a
6-107-17b
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ।।
6-107-18a
6-107-18b
वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ।।
6-107-19a
6-107-19b
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन्।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ।।
6-107-20a
6-107-20b
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ।।
6-107-21a
6-107-21b
मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ।।
6-107-22a
6-107-22b
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ।।
6-107-23a
6-107-23b
यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ।।
6-107-24a
6-107-24b
सञ्जय उवाच। 6-107-25x
एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ।।
6-107-25a
6-107-25b
श्रीभगवानुवाच । 6-107-26x
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।
यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ।।
6-107-26a
6-107-26b
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ।।
6-107-27a
6-107-27b
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ।।
6-107-28a
6-107-28b
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ।।
6-107-29a
6-107-29b
यदि भीष्मे हते वीरे जयं पश्यसि पण्डव।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ।।
6-107-30a
6-107-30b
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे।
विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ।।
6-107-31a
6-107-31b
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः।
मदर्था भवदर्था ये ये मदीयास्तवैव ते ।।
6-107-32a
6-107-32b
तव भ्राता मम सखा संबन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ।।
6-107-33a
6-107-33b
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्।
एष नः समयस्तात तारयेम परस्परम् ।।
6-107-34a
6-107-34b
स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् ।
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ।।
6-107-35a
6-107-35b
पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ।।
6-107-36a
6-107-36b
अनुज्ञातेन पार्थेन मया कार्यं न संशयः।
अथवा फल्गुनस्यैष भारः परिमितो रणे ।।
6-107-37a
6-107-37b
स हनिष्यति संग्रामे भीष्मं परपुरंजयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ।।
6-107-38a
6-107-38b
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।
निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ।।
6-107-39a
6-107-39b
विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ।।
6-107-40a
6-107-40b
युधिष्ठिर उवाच। 6-107-41x
एवमेतन्महाबाहो यथा वदसि माधव।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ।।
6-107-41a
6-107-41b
नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ।।
6-107-42a
6-107-42b
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ।।
6-107-43a
6-107-43b
न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात्।
अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ।।
6-107-44a
6-107-44b
समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ।।
6-107-45a
6-107-45b
दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ।।
6-107-46a
6-107-46b
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ।।
6-107-47a
6-107-47b
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ।।
6-107-48a
6-107-48b
स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन।
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ।।
6-107-49a
6-107-49b
स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ।।
6-107-50a
6-107-50b
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ।।
6-107-51a
6-107-51b
सञ्जय उवाच। 6-107-52x
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ।।
6-107-52a
6-107-52b
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्।
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ।।
6-107-53a
6-107-53b
वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ।।
6-107-54a
6-107-54b
गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ।।
6-107-55a
6-107-55b
सञ्जय उवाच। 6-107-56x
एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ।।
6-107-56a
6-107-56b
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ।।
6-107-57a
6-107-57b
पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ।।
6-107-58a
6-107-58b
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ।।
6-107-59a
6-107-59b
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ।।
6-107-60a
6-107-60b
`युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।'
सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ।।
6-107-61a
6-107-61b
6-107-61c
उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः।
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ।।
6-107-62a
6-107-62b
प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो ।
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ।।
6-107-63a
6-107-63b
भवन्तं समरे वीर विषहेम कथं वयम्।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ।।
6-107-64a
6-107-64b
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा।
आददानं संदधानं विकर्षन्तं धनुर्न च ।।
6-107-65a
6-107-65b
पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ।।
6-107-66a
6-107-66b
कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ ।
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ।।
6-107-67a
6-107-67b
क्षयं निता हि पृतना संयुगे महती मम।
यथा युधि जयेम त्वां यथा राज्यं भृशं मम ।।
6-107-68a
6-107-68b
मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह । 6-107-69a
सञ्जय उवाच। 6-107-69x
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ।। 6-107-69b
न कथंचन कौन्तेय मयि जीवति संयुगे।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ।।
6-107-70a
6-107-70b
निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ।।
6-107-71a
6-107-71b
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ।
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ।।
6-107-72a
6-107-72b
6-107-72c
युधिष्ठिर उवाच। 6-107-73x
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि।
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ।।
6-107-73a
6-107-73b
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा।
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ।।
6-107-74a
6-107-74b
भीष्म उवाच। 6-107-75x
सत्यमेतन्महाबाहो यथा वदसि पाण्डव ।। 6-107-75a
नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ।।
6-107-76a
6-107-76b
6-107-76c
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।
द्रवमाणे च भीते च तवास्मीति च वादिनि ।।
6-107-77a
6-107-77b
`स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज'
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ।
अप्रसूते च षण्डे च न युद्धं रोचते मम ।।
6-107-78a
6-107-78b
6-107-78c
इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् ।
असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ।।
6-107-79a
6-107-79b
य एष द्रौपदो राजंस्तव सैन्ये महारथः ।
शिखण्डी समरामर्षी शूरश्च समितिंजयः ।।
6-107-80a
6-107-80b
यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ।।
6-107-81a
6-107-81b
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् ।
मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ।।
6-107-82a
6-107-82b
असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।
न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन ।।
6-107-83a
6-107-83b
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ।।
6-107-84a
6-107-84b
न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम्।
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ।।
6-107-85a
6-107-85b
पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः ।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ।।
6-107-86a
6-107-86b
6-107-86c
एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान् ।।
6-107-87a
6-107-87b
सञ्जय उवाच। 6-107-88x
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ।।
6-107-88a
6-107-88b
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते।
अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ।।
6-107-89a
6-107-89b
गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता ।
पितामहेन संग्रामे कथं योद्धास्मि माधव ।।
6-107-90a
6-107-90b
क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः।।
6-107-91a
6-107-91b
यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ।।
6-107-92a
6-107-92b
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ।।
6-107-93a
6-107-93b
कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ।।
6-107-94a
6-107-94b
` कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् ।
न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ।।'
6-107-95a
6-107-95b
श्रीवासुदेव उवाच। 6-107-96x
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ।।
6-107-96a
6-107-96b
पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ।।
6-107-97a
6-107-97b
दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ।।
6-107-98a
6-107-98b
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ।।
6-107-99a
6-107-99b
जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ।।
6-107-100a
6-107-100b
ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्धातकमात्मनः ।।
6-107-101a
6-107-101b
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ।।
6-107-102a
6-107-102b
अर्जुन उवाच। 6-107-103x
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ।।
6-107-103a
6-107-103b
ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ।।
6-107-104a
6-107-104b
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ।।
6-107-105a
6-107-105b
श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ।।
6-107-106a
6-107-106b
`अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम्।
जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा।।'
6-107-107a
6-107-107b
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः।
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः।
शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ।।
6-107-108a
6-107-108b
6-107-108c
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्ताधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

6-107-20 एकत इति द्वितीयान्तात्तसिः। एकं केवलं मृत्युमेवाभ्येतीत्यर्थः ।। 6-107-40 विपरीतः क्षुद्रेषु पराक्रमी । गतसत्वो गतबुद्धिः ।। 6-107-61 युद्धादन्यत्रेत्यर्धं कः पुस्तक एव दृश्यते ।। 6-107-91 परुषीकृतः रूक्षीकृतः ।। 6-107-97 युद्धदुर्मदं युद्धोत्सुकम् ।। 6-107-98 गमिष्याति यमक्षयं इति पाठे भीष्म इति शेषः ।। 6-107-101 आततायिनमित्यस्य घातकमिति विशेषणमन्येभ्य आततायिभ्यो व्यवच्छेदायोक्तम् ।। 6-107-103 निधनं निधनहेतुः ।।

भीष्मपर्व-106 पुटाग्रे अल्लिखितम्। भीष्मपर्व-108