महाभारतम्-06-भीष्मपर्व-016
दिखावट
← भीष्मपर्व-015 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-016 वेदव्यासः |
भीष्मपर्व-017 → |
|
कुरुपाण्डवसेनावर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-16-1x |
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपलानां युज्यतां युज्यतामिति ।। | 6-16-1a 6-16-1b |
शङ्खदुन्दुभिघोषैश्च सिंहनादैश्च भारत। हयहेषितनादैश्च रथनेमिस्वनैस्तथा ।। | 6-16-2a 6-16-2b |
गाजानां बृहतां चैव योधानां चापि गर्जताम्। क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ।। | 6-16-3a 6-16-3b |
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः । सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ।। | 6-16-4a 6-16-4b |
राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च। दुष्प्रधृष्याणि चास्त्राणि सशस्रकवचानि च ।। | 6-16-5a 6-16-5b |
ततः प्रकाशे सैन्यानि समदृश्यन्त भारत। त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च ।। | 6-16-6a 6-16-6b |
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः। विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ।। | 6-16-7a 6-16-7b |
रथानीकान्यदृश्यन्त नगराणीव भूरिशः । अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ।। | 6-16-8a 6-16-8b |
धनुर्भिर्ऋष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः । योधाः प्रहरणैः शुभ्रैस्तेष्वनीकेष्ववस्थिताः ।। | 6-16-9a 6-16-9b |
गजाः पदाता रथिनस्तुरगाश्च विशांपते । व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ।। | 6-16-10a 6-16-10b |
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः। स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ।। | 6-16-11a 6-16-11b |
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः ।। | 6-16-12a 6-16-12b |
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव। सन्नद्धास्ते प्रवीराश्च ददृशुर्युद्धकाङ्क्षिणः ।। | 6-16-13a 6-16-13b |
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः । ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ।। | 6-16-14a 6-16-14b |
शकुनिः सौबलः शल्य आवन्त्योऽथ जयद्रथः । विन्दानुविन्दौ कैकेयाः काम्भोजश्च सुदक्षिणः ।। | 6-16-15a 6-16-15b |
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः । बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ।। | 6-16-16a 6-16-16b |
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः । अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ।। | 6-16-17a 6-16-17b |
एते चान्ये च बहवो दुर्योधनवशानुगाः । राजानो राजपुत्राश्च नीतिमन्तो महारथाः ।। | 6-16-18a 6-16-18b |
सन्नद्धाः समदृश्यन स्वेष्वनीकेष्ववस्थिताः । बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः ।। | 6-16-19a 6-16-19b |
हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः। समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः ।। | 6-16-20a 6-16-20b |
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः । अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः ।। | 6-16-21a 6-16-21b |
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् । अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ।। | 6-16-22a 6-16-22b |
हेमतालध्वजं भीष्मं राजते स्यन्दते स्थितम् । श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ।। | 6-16-23a 6-16-23b |
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः । सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः । जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ।। | 6-16-24a 6-16-24b 6-16-24c |
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः । एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव ।। | 6-16-25a 6-16-25b |
पाण्डवानां तथा सप्त महापुरुषपालिताः । उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ।। | 6-16-26a 6-16-26b |
युगान्ते समवेतौ द्वौ दृश्येते सागराविव । नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः । अनीकानां समेतानां कौरवाणां तथाविधः ।। | 6-16-27a 6-16-27b 6-16-27c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षोडशोऽध्यायः ।। |
6-16-4 युक्तं सन्नद्धम् । अशेषतः सर्वप्रकारैः ।। 6-16-10 वागुराकाराः परेषां बन्धनार्थमित्यर्थः ।। 6-16-14 तलबद्धाः तलं ज्याधातत्राणं बद्धं यैस्ते । कलापिनः तूणवन्तः ।। 6-16-27 तथाविधः संमर्द इति शेषः ।।
भीष्मपर्व-015 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-017 |