महाभारतम्-06-भीष्मपर्व-114
दिखावट
| ← भीष्मपर्व-113 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-114 वेदव्यासः |
भीष्मपर्व-115 → |
|
भीमार्जुनपराक्रमवर्णनम् ।। 1 ।।
| सञ्जय उवाच। | 6-114-1x |
|
अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः सन्नतपर्वभिः ।। | 6-114-1a 6-114-1b |
|
सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ।। | 6-114-2a 6-114-2b |
|
चित्रसेनं विकर्णं च कृतवर्माणमेव च । दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ।। | 6-114-3a 6-114-3b |
|
एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः । शरैरतिरथो युद्धे पीडयन्वाहिनीं तव।। | 6-114-4a 6-114-4b |
|
जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः । भीमं विव्याध तरसा चित्रसेनरथे स्थितः ।। | 6-114-5a 6-114-5b |
|
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।। विव्याधाते महाराज बहुधा मर्ममेदिभिः ।। | 6-114-6a 6-114-6b |
|
चित्रसेनादयश्चैव पुत्रास्तव विशांपते । पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ।। | 6-114-7a 6-114-7b |
|
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष । तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ।। | 6-114-8a 6-114-8b |
|
अपीडयेतां समरे त्रिगर्तानां महद्बलम् । सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ।। | 6-114-9a 6-114-9b |
|
ननाद बलवन्नादं त्रासयानो महद्बलम् । अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ।। | 6-114-10a 6-114-10b |
|
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः । तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ।। | 6-114-11a 6-114-11b |
|
क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् । आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ।। | 6-114-12a 6-114-12b |
|
छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे । पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ।। | 6-114-13a 6-114-13b |
|
रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ।। | 6-114-14a 6-114-14b |
|
रथिनः सादिनश्चापि तत्रतत्र निषूदिताः। दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ।। | 6-114-15a 6-114-15b |
|
हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ।। | 6-114-16a 6-114-16b |
|
छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः । अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ।। | 6-114-17a 6-114-17b |
|
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा । उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ।। | 6-114-18a 6-114-18b |
|
तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः । ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ।। | 6-114-19a 6-114-19b |
|
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् । शरैः संवार्य तान्वीरान्यज्जघान महाबलः ।। | 6-114-20a 6-114-20b |
|
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् । गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ।। | 6-114-21a 6-114-21b |
|
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः । विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ।। | 6-114-22a 6-114-22b |
|
ततो भीमो महेष्वासः फल्गुनश्च महारथः । कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ।। | 6-114-23a 6-114-23b |
|
ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ।। | 6-114-24a 6-114-24b |
|
ततस्तञ्शरजालेन सन्निवार्य महारथान् । पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ।। | 6-114-25a 6-114-25b |
|
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः । आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ।। | 6-114-26a 6-114-26b |
|
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः । अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ।। | 6-114-27a 6-114-27b |
|
अथान्यद्धनुरादाय समरे भारसाधनम् । मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ।। | 6-114-28a 6-114-28b |
|
त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ।। | 6-114-29a 6-114-29b |
|
ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः।। | 6-114-30a 6-114-30b |
|
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ।। | 6-114-31a 6-114-31b |
|
जयत्सेनस्तु समरे भीमं भीमायुधं युधि। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ।। | 6-114-32a 6-114-32b |
|
तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः । सारथिं चास्य भल्लेन रथनीडादपातयत् ।। | 6-114-33a 6-114-33b |
|
उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ।। | 6-114-34a 6-114-34b |
|
द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः । विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ।। | 6-114-35a 6-114-35b |
|
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ।। | 6-114-36a 6-114-36b |
|
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ।। | 6-114-37a 6-114-37b |
|
ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः । समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ ।। | 6-114-38a 6-114-38b |
|
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ।। | 6-114-39a 6-114-39b |
|
शिखण्डी तु समासाद्य भरतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ।। | 6-114-40a 6-114-40b |
|
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ।। | 6-114-41a 6-114-41b |
|
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ।। | 6-114-42a 6-114-42b |
|
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ।। | 6-114-43a 6-114-43b |
|
तावकानां जये भीष्मो ग्लह आसीद्विशांपते । तत्र हि द्यूतमासक्तं विजयायेतराय वा ।। | 6-114-44a 6-114-44b |
|
धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्। अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ।। | 6-114-45a 6-114-45b |
|
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ।। | 6-114-46a 6-114-46b |
|
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः ।। | 6-114-47a 6-114-47b |
|
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ।। |
6-114-24 बर्हिणवाजानां मयूरपक्षवतां बाणानाम् ।। 6-114-30 मागधो जयत्सेनः ।। 6-114-34 अपसृतः पलायितः ।।
| भीष्मपर्व-113 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-115 |