महाभारतम्-06-भीष्मपर्व-102
दिखावट
← भीष्मपर्व-101 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-102 वेदव्यासः |
भीष्मपर्व-103 → |
|
द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च ।। 1 ।।
धृतराष्ट्र उवाच। | 6-102-1x |
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः । समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ।। | 6-102-1a 6-102-1b |
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः । आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ।। | 6-102-2a 6-102-2b |
तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ । कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ।। | 6-102-3a 6-102-3b |
सञ्जय उवाच। | 6-102-4x |
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः । क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ।। | 6-102-4a 6-102-4b |
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् । निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ।। | 6-102-5a 6-102-5b |
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः । नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ।। | 6-102-6a 6-102-6b |
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे । स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ।। | 6-102-7a 6-102-7b |
ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः । छादयामास राजेन्द्र नचिरादेव भारत ।। | 6-102-8a 6-102-8b |
ततो दुर्योधनो राजा सुशर्माणमचोदयत् । द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ।। | 6-102-9a 6-102-9b |
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् । छादयामास समरे पार्थं बाणैरयोमुखैः ।। | 6-102-10a 6-102-10b |
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे । हंसा इव महाराज शरत्काले नभस्तले ।। | 6-102-11a 6-102-11b |
ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो । फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ।। | 6-102-12a 6-102-12b |
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः। त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ।। | 6-102-13a 6-102-13b |
ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः । मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ।। | 6-102-14a 6-102-14b 6-102-14c |
शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः । प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः।। | 6-102-15a 6-102-15b |
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् । विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ।। | 6-102-16a 6-102-16b |
यदेको वारयामास मारुतोऽभ्रगणानिव । कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ।। | 6-102-17a 6-102-17b |
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत। मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ।। | 6-102-18a 6-102-18b |
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् । पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ।। | 6-102-19a 6-102-19b |
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्। शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ।। | 6-102-20a 6-102-20b |
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप। प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ।। | 6-102-21a 6-102-21b |
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् । निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ।। | 6-102-22a 6-102-22b |
ततो दुर्योधनश्चैव कृपश्च रथिनां वरः। अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ।। | 6-102-23a 6-102-23b |
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः । महता रथवंशेन पार्थस्यावारयन्दिशः ।। | 6-102-24a 6-102-24b |
तथैव भगदत्तश्च श्रतायुश्च महाबलः। गजानीकेन भीमस्य ताववारयतां दिशः ।। | 6-102-25a 6-102-25b |
भूरिश्रवाः शलश्चैव सौबलश्च विशांपते । शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ।। | 6-102-26a 6-102-26b |
भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः । युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ।। | 6-102-27a 6-102-27b |
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। लोलिहन्सृक्किणी वीरो मृगराडिव कानने ।। | 6-102-28a 6-102-28b |
भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे । अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ।। | 6-102-29a 6-102-29b |
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः । परिवव्रू रणे यत्ता भीमसेनं समन्ततः ।। | 6-102-30a 6-102-30b |
गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत। मेघजालस्य महतो यथा मध्यगतो रविः ।। | 6-102-31a 6-102-31b |
व्यधमत्स गजानीकं गदया पाण्डवर्षभः । महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ।। | 6-102-32a 6-102-32b |
ते वध्यमाना बलिना भीमसेनेन दन्तिनः । आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ।। | 6-102-33a 6-102-33b |
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः । फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ।। | 6-102-34a 6-102-34b |
`सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः।' वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ।। | 6-102-35a 6-102-35b |
विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्। विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ।। | 6-102-36a 6-102-36b |
विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् । पातयामास समरे दण्डहस्त इवान्तकः ।। | 6-102-37a 6-102-37b |
शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः । कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ।। | 6-102-38a 6-102-38b |
एवं के वध्यमानाश्च हतशेषा महागजाः । प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ।। | 6-102-39a 6-102-39b |
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ। दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ।। | 6-102-40a 6-102-40b |
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ।। |
भीष्मपर्व-101 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-103 |