महाभारतम्-06-भीष्मपर्व-071
दिखावट
← भीष्मपर्व-070 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-071 वेदव्यासः |
भीष्मपर्व-072 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-71-1x |
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् । समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः ।। | 6-71-1a 6-71-1b |
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च। ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ।। | 6-71-2a 6-71-2b |
सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम्। असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ।। | 6-71-3a 6-71-3b |
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् । अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ।। | 6-71-4a 6-71-4b |
सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत। विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे । ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ।। | 6-71-5a 6-71-5b 6-71-5c |
आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः। सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ।। | 6-71-6a 6-71-6b |
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् । दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ।। | 6-71-7a 6-71-7b |
समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः । दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ।। | 6-71-8a 6-71-8b |
कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः। अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ।। | 6-71-9a 6-71-9b |
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः । तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ।। | 6-71-10a 6-71-10b |
समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ।। | 6-71-11a 6-71-11b |
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ।। | 6-71-12a 6-71-12b |
अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः । गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ।। | 6-71-13a 6-71-13b |
मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते । सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ।। | 6-71-14a 6-71-14b |
नानानरगणौघैश्च दुःशासनपुरःसरः । जयद्रथश्च नृपतिः सहितः सर्वराजभिः ।। | 6-71-15a 6-71-15b |
हयारोहवराश्चैव तव पुत्रेण चोदिताः । चतुर्दशसहस्राणि सौबलं पर्यवारयन् ।। | 6-71-16a 6-71-16b |
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः । अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ।। | 6-71-17a 6-71-17b |
चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः । पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः। तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ।। | 6-71-18a 6-71-18b 6-71-18c |
रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् । घोरमायोधनं चक्रे महाभ्रसदृशं रजः ।। | 6-71-19a 6-71-19b |
तोमरप्रासनाराचगजाश्वरथयोधिनाम् । बलेन महता भीष्मः समसञ्जत्किरीटिना ।। | 6-71-20a 6-71-20b |
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः । अजातशत्रुर्मद्राणामृषभेण यशश्विना ।। | 6-71-21a 6-71-21b |
सहपुत्रः सहामात्यः शल्येन समसञ्जत। विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ।। | 6-71-22a 6-71-22b |
मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते। द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ।। | 6-71-23a 6-71-23b |
द्रोणेन समसञ्जन्त सपुत्रेण महात्मना । कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ।। | 6-71-24a 6-71-24b |
एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च। सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ।। | 6-71-25a 6-71-25b |
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः । प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते ।। | 6-71-26a 6-71-26b |
प्रादुर्भूतो महावातः पांसुवर्षं पपात च । नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ।। | 6-71-27a 6-71-27b |
प्रमोहः सर्वसत्वानामतीव समपद्यत। रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ।। | 6-71-28a 6-71-28b |
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् । संघातः शरजालानां तुमुलः समपद्यत ।। | 6-71-29a 6-71-29b |
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः । नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ।। | 6-71-30a 6-71-30b |
आर्षभाणि विचित्राणि रुक्मजालावृतानि च । संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ।। | 6-71-31a 6-71-31b |
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः । दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च । | 6-71-32a 6-71-32b |
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः । हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ।। | 6-71-33a 6-71-33b |
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः । रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ।। | 6-71-34a 6-71-34b |
शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः । युगानि पर्यकर्षन्त तत्रतत्र स्म भारत। | 6-71-35a 6-71-35b |
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः । एकेन बलिना राजन्वारणेन विमर्दिताः ।। | 6-71-36a 6-71-36b |
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ।। | 6-71-37a 6-71-37b |
सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः । बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ।। | 6-71-38a 6-71-38b |
सन्निपाते बलौघानां प्रेषितैर्वरवारणैः । निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ।। | 6-71-39a 6-71-39b |
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे । व्यदृश्यन्त महाराज संभग्ना रथकूबराः ।। | 6-71-40a 6-71-40b |
विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः । द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ।। | 6-71-41a 6-71-41b |
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः । विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ।। | 6-71-42a 6-71-42b |
तेषां तथा कर्षतां तु गजानां रूपमाबभौ । सरःसु नलिनीजालं विषक्तमिव कर्षताम् ।। | 6-71-43a 6-71-43b |
एवं संछादितं तत्र बभूवायोधनं महत्। सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ।। | 6-71-44a 6-71-44b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकसप्ततितमोऽध्यायः ।। |
6-71-7 स्तनयित्नुर्गर्जितम् ।।
भीष्मपर्व-070 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-072 |