महाभारतम्-06-भीष्मपर्व-105
दिखावट
← भीष्मपर्व-104 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-105 वेदव्यासः |
भीष्मपर्व-106 → |
|
युधिष्ठिरादियुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-105-1x |
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्। यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ।। | 6-105-1a 6-105-1b |
दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ।। | 6-105-2a 6-105-2b |
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ।। | 6-105-3a 6-105-3b |
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ।। | 6-105-4a 6-105-4b |
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ।। | 6-105-5a 6-105-5b |
स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ।। | 6-105-6a 6-105-6b |
सञ्जय उवाच। | 6-105-7x |
स एवमुक्तः समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ।। | 6-105-7a 6-105-7b |
ततः शतसहस्राणां हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम् ।। | 6-105-8a 6-105-8b |
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ।। | 6-105-9a 6-105-9b |
नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ।। | 6-105-10a 6-105-10b |
ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे ।। | 6-105-11a 6-105-11b |
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च ।। | 6-105-12a 6-105-12b |
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते ।। | 6-105-13a 6-105-13b |
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः। दिवाकररथं प्राप्य च्छादयामास भास्करम् ।। | 6-105-14a 6-105-14b |
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः। निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ।। | 6-105-15a 6-105-15b |
हेषतां चैव शब्देन न प्राज्ञायत किंचन । `अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः।।' | 6-105-16a 6-105-16b |
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ। प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ।। | 6-105-17a 6-105-17b |
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः। पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ।। | 6-105-18a 6-105-18b |
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ।। | 6-105-19a 6-105-19b |
ते निपेतुर्महाराज निहता दृढधन्विभिः । नागैरिव महानागा यथावद्गिरिगह्वरे ।। | 6-105-20a 6-105-20b |
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ।। | 6-105-21a 6-105-21b |
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ । अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ।। | 6-105-22a 6-105-22b |
समादिनो हया राजंस्तत्रतत्र निषूदिताः। पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ।। | 6-105-23a 6-105-23b |
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः। यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ।। | 6-105-24a 6-105-24b |
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे । दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ।। | 6-105-25a 6-105-25b |
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् । अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ।। | 6-105-26a 6-105-26b |
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे । पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ।। | 6-105-27a 6-105-27b |
तं वारय महाबाहो वेलेव मकरालयम् । त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ।। | 6-105-28a 6-105-28b |
सञ्जय उवाच। | 6-105-29x |
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्। स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ।। | 6-105-29a 6-105-29b |
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् । महौघवेगं समरे वारयामास पाण्डवः ।। | 6-105-30a 6-105-30b |
मद्रराजं च समरे धर्मराजो महारथः। दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे । नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ।। | 6-105-31a 6-105-31b 6-105-31c |
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः । युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ।। | 6-105-32a 6-105-32b |
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्। ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे।। | 6-105-33a 6-105-33b |
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा। अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ।। | 6-105-34a 6-105-34b |
`आपतन्नेव भीमस्तु मद्रराजमताडयत्।' सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ।। | 6-105-35a 6-105-35b |
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ। राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ।। | 6-105-36a 6-105-36b |
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्। अपरां दिशमास्थाय द्योतमाने दिवाकरे ।। | 6-105-37a 6-105-37b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ।। |
6-105-8 तत इति। सैन्येनेति पूर्वस्मादनुकृष्यते। हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ।।
भीष्मपर्व-104 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-106 |