महाभारतम्-06-भीष्मपर्व-082
दिखावट
← भीष्मपर्व-081 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-082 वेदव्यासः |
भीष्मपर्व-083 → |
|
द्रोणेन विराटसूनोः शङ्खस्य वधः ।। 1 ।। द्वन्द्वयुद्धम् ।। 2 ।।
सञ्जय उवाच। | 6-82-1x |
प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि । भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ।। | 6-82-1a 6-82-1b |
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव। प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ।। | 6-82-2a 6-82-2b |
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् । त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ।। ेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् । मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव।। | 6-82-3a 6-82-3b 6-82-4aत 6-82-4b |
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् । सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ।। | 6-82-5a 6-82-5b |
तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् । संयत्ताः समरे सर्वे पालयध्वं पितामहम् ।। | 6-82-6a 6-82-6b |
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः । नरेन्द्राणां महाराज समाजग्मुः पितामहम् ।। | 6-82-7a 6-82-7b |
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् । रणे भारतमायान्तमाससाद महाबलः ।। | 6-82-8a 6-82-8b |
महाश्वेताश्वयुक्तेन भीमवानरकेतुना । महता मेघनादेन रथेनातिविराजता ।। | 6-82-9a 6-82-9b |
समरे सर्वसैन्यानामुपयानं धनञ्जयम्। अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ।। | 6-82-10a 6-82-10b |
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् । मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ।। | 6-82-11a 6-82-11b |
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् । न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ।। | 6-82-12a 6-82-12b |
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः । भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ।। | 6-82-13a 6-82-13b |
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा। ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ।। | 6-82-14a 6-82-14b |
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः । अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।। | 6-82-15a 6-82-15b |
शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव । द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ।। | 6-82-16a 6-82-16b |
ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः । धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ।। | 6-82-17a 6-82-17b |
तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः। अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ।। | 6-82-18a 6-82-18b |
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः। आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ।। | 6-82-19a 6-82-19b |
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ । महता शरवर्षेण वारयामाससतुर्बलात् ।। | 6-82-20a 6-82-20b |
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् । चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ।। | 6-82-21a 6-82-21b |
स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे। जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ।। | 6-82-22a 6-82-22b |
स पपात रणे तूर्णं भारद्वाजशराहतः। धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ।। | 6-82-23a 6-82-23b |
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्। उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ।। | 6-82-24a 6-82-24b |
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्। दारयामास समरे शतशोऽथ सहस्रशः ।। | 6-82-25a 6-82-25b |
शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे। आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ।। | 6-82-26a 6-82-26b |
स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः । शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ।। | 6-82-27a 6-82-27b |
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः । ध्वजं सूतमथो राजंस्तुरगानायुधानि च ।। | 6-82-28a 6-82-28b |
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष। स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ।। | 6-82-29a 6-82-29b |
खङ्गमादाय सुशितं विमलं च शरावरम् । श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ।। | 6-82-30a 6-82-30b |
सखङ्गस्य महाराज चरतस्तस्य संयुगे । नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ।। | 6-82-31a 6-82-31b |
ततः शरसहस्राणि बहूनि भरतर्षभ । प्रेषयामास समरे द्रौणिः परमकोपनः ।। | 6-82-32a 6-82-32b |
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ।। | 6-82-33a 6-82-33b |
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ।। | 6-82-34a 6-82-34b |
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः । शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ।। | 6-82-35a 6-82-35b |
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् । तमापतन्तं सहसा कालानलसमप्रभम् ।। | 6-82-36a 6-82-36b |
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् । शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ।। | 6-82-37a 6-82-37b |
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः । आरुरोह रथं तूर्णं माधवस्य महात्मनः ।। | 6-82-38a 6-82-38b |
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे। अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ।। | 6-82-39a 6-82-39b |
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।। | 6-82-40a 6-82-40b |
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्। तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ।। | 6-82-41a 6-82-41b |
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः । ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ।। | 6-82-42a 6-82-42b |
विजयाद्यदनुप्राप्तं माधवेन यशस्विना। तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ।। | 6-82-43a 6-82-43b |
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ।। | 6-82-44a 6-82-44b |
तत्तथा पीडितं तेन माधवेन यशस्विना । प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ।। | 6-82-45a 6-82-45b |
........ माघवता जित्वा भारत सात्यकिः। शैनेयः प्राणद?ज्जित्वा योधानां तव पश्यताम् ।। | 6-82-46a 6-82-46b |
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः । निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ।। | 6-82-47a 6-82-47b |
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ।। | 6-82-48a 6-82-48b |
छादयामास समरे शरैः सन्नतपर्वभिः । स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ।। | 6-82-49a 6-82-49b |
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर । धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ।। | 6-82-50a 6-82-50b |
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् । तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ।। | 6-82-51a 6-82-51b |
हयांश्च चतुरः शीघ्रं निजघान महाबलः । शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ।। | 6-82-52a 6-82-52b |
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली । पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति।। | 6-82-53a 6-82-53b |
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः । राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ।। | 6-82-54a 6-82-54b |
ततो नृपं पराजित्य पार्षतः परवीरहा । न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ।। | 6-82-55a 6-82-55b |
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः । प्रच्छादयामास च तं महामेघो रविं यथा ।। | 6-82-56a 6-82-56b |
ततः प्रहस्य समरे भीमसेनः परंतपः । प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे ।। | 6-82-57a 6-82-57b |
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः । नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ।। | 6-82-58a 6-82-58b |
तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः । सारथिं पातयामास सध्वजं सुपरिष्कृतम् ।। | 6-82-59a 6-82-59b |
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा । शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ।। | 6-82-60a 6-82-60b |
हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ। स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ।। | 6-82-61a 6-82-61b |
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्। निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ।। | 6-82-62a 6-82-62b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे द्वशीतितमोऽध्यायः ।। |
6-82-60 सर्वाङ्गो हताश्वः प्रत्यदृश्यतेति झo पाठः ।।
भीष्मपर्व-081 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-083 |