महाभारतम्-06-भीष्मपर्व-024
पठन सेटिंग्स
← भीष्मपर्व-023 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-024 वेदव्यासः |
भीष्मपर्व-025 → |
|
सञ्जयेनोभयसेनयोरभ्युदयवर्णनम् ।। 1 ।।
धृतराष्ट्र उवाच। | 6-24-1x |
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय। उदग्रमनसः के वा के वा दीना विचेतसः ।। | 6-24-1a 6-24-1b |
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने । मामकाः पाण्डवेया वा तन्ममाचक्ष्व सञ्जय ।। | 6-24-2a 6-24-2b |
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः । वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम् ।। | 6-24-3a 6-24-3b |
सञ्जय उवाच। | 6-24-4x |
उभयोः सेनयोस्तत्र योधा जहृषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः ।। | 6-24-4a 6-24-4b |
संहतानामनीकानां व्यूढानां भरतर्षभ । संसर्गात्समुदीर्णानां विमर्दः सुमहानभूत् ।। | 6-24-5a 6-24-5b |
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम् ।। | 6-24-6a 6-24-6b |
उभयोः सेनयो राजन्महान्व्यतिकरोऽभवत्। अन्योन्यं वीक्षमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ।। | 6-24-7a 6-24-7b 6-24-7c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्विशोऽध्यायः ।। |
भीष्मपर्व-023 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-025 |