महाभारतम्-06-भीष्मपर्व-042

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-041 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-042
वेदव्यासः
भीष्मपर्व-043 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

द्विचत्वारिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 18 ।।

अर्जुन उवाच। 6-42-1x
संन्यासत्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिपूदन ।।
6-42-1a
6-42-1b
श्रीभगवानुवाच। 6-42-2x
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।।
6-42-2a
6-42-2b
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ।।
6-42-3a
6-42-3b
निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ।।
6-42-4a
6-42-4b
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।।
6-42-5a
6-42-5b
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।।
6-42-6a
6-42-6b
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।।
6-42-7a
6-42-7b
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।।
6-42-8a
6-42-8b
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ।।
6-42-9a
6-42-9b
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ।।
6-42-10a
6-42-10b
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।।
6-42-11a
6-42-11b
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनीं प्रेत्य न तु संन्यासिनां क्वचित् ।।
6-42-12a
6-42-12b
पञ्चैतानि महाबाहो कारणानि निबोध मे।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां ।।
6-42-13a
6-42-13b
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।
विविधाश्च पृथक्केष्टा दैवं चैवात्र पञ्चमम् ।।
6-42-14a
6-42-14b
शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।।
6-42-15a
6-42-15b
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।।
6-42-16a
6-42-16b
यस्य नाहंकृतो भवो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ।।
6-42-17a
6-42-17b
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ।।
6-42-18a
6-42-18b
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ।।
6-42-19a
6-42-19b
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकं ।।
6-42-20a
6-42-20b
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ।।
6-42-21a
6-42-21b
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तासममुदाहृतम् ।।
6-42-22a
6-42-22b
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ।।
6-42-23a
6-42-23b
यत्तु कामेप्सुना कर्म ताहङ्कारेण वा पुनः।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ।।
6-42-24a
6-42-24b
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ।।
6-42-25a
6-42-25b
मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ।।
6-42-26a
6-42-26b
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।।
6-42-27a
6-42-27b
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ।।
6-42-28a
6-42-28b
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ।।
6-42-29a
6-42-29b
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी ।।
6-42-30a
6-42-30b
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ।।
6-42-31a
6-42-31b
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ।।
6-42-32a
6-42-32b
धृत्या यया धारयते मनःप्रणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी ।।
6-42-33a
6-42-33b
यया तु धर्मकामार्धान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।
6-42-34a
6-42-34b
यथा स्वप्नं भयं शोकं विषादं भदेमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ।।
6-42-35a
6-42-35b
सुखं त्विदानीं त्रिविधं श्रुणु मे भारतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ।।
6-42-36a
6-42-36b
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।
तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ।।
6-42-37a
6-42-37b
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपभम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ।।
6-42-38a
6-42-38b
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्ताभसमुदाहृतम् ।।
6-42-39a
6-42-39b
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेमिः स्यात्रिभिर्गुणैः ।।
6-42-40a
6-42-40b
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।।
6-42-41a
6-42-41b
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।।
6-42-42a
6-42-42b
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।।
6-42-43a
6-42-43b
कृषिगोरक्ष्यरभावश्च क्षात्रं कर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ।।
6-42-44a
6-42-44b
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्मनिरत्तः सिद्धिं यथा विन्दति तच्छृणु ।।
6-42-45a
6-42-45b
यतः प्रवृत्तिर्भूतानां योन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःक ।।
6-42-46a
6-42-46b
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ।।
6-42-47a
6-42-47b
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ।।
6-42-48a
6-42-48b
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ।।
6-42-49a
6-42-49b
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नेति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ।।
6-42-50a
6-42-50b
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।।
6-42-51a
6-42-51b
विविक्तसेवी लध्वाशी यतकाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ।।
6-42-52a
6-42-52b
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।।
6-42-53a
6-42-53b
ब्रह्मभूतः प्रसन्नात्मा न शोचतिक न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्तभक्तिं लभते पराम् ।।
6-42-54a
6-42-54b
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ।।
6-42-55a
6-42-55b
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।।
6-42-56a
6-42-56b
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ।।
6-42-57a
6-42-57b
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ।।
6-42-58a
6-42-58b
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ।।
6-42-59a
6-42-59b
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ।।
6-42-60a
6-42-60b
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।।
6-42-61a
6-42-61b
तमेव शरणं गच्छ सर्वभावेन भारत।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतं ।।
6-42-62a
6-42-62b
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ।।
6-42-63a
6-42-63b
सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः ।
इष्टेऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।
6-42-64a
6-42-64b
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।।
6-42-65a
6-42-65b
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।
6-42-66a
6-42-66b
इदं ते नातपस्काय नाभक्ताय कदाचन।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ।।
6-42-67a
6-42-67b
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।
6-42-68a
6-42-68b
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ।।
6-42-69a
6-42-69b
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।।
6-42-70a
6-42-70b
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।
सोपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणां ।।
6-42-71a
6-42-71b
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ।।
6-42-72a
6-42-72b
अर्जुन उवाच। 6-42-73x
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ।।
6-42-73a
6-42-73b
सञ्जय उवाच। 6-42-74x
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ।।
6-42-74a
6-42-74b
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ।।
6-42-75a
6-42-75b
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुवयोः पुण्यं हृष्यामि च मुहुर्मुहुः ।।
6-42-76a
6-42-76b
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ।।
6-42-77a
6-42-77b
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।।
6-42-78a
6-42-78b
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे संन्यासयोगोनाम अष्टादशोऽध्यायः ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्विचत्वारिंशोऽध्यायः ।।
।। समाप्तं भगवद्गीतापर्व ।।

[सम्पाद्यताम्]

6-42-14 विविधा चेति माध्वपाठः ।। 6-42-42ब्रह्मं कर्म स्वभावजम् इति माध्वपाठः ।। 6-42-57 बुद्धियोगमुपाश्रित्येति माध्वपाठः ।। 6-42-78 यत्र योगीश्वर इति माध्वपाठः ।।

भीष्मपर्व-041 पुटाग्रे अल्लिखितम्। भीष्मपर्व-043