महाभारतम्-06-भीष्मपर्व-055
पठन सेटिंग्स
← भीष्मपर्व-054 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-055 वेदव्यासः |
भीष्मपर्व-056 → |
|
अर्जुनयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-55-1x |
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत। रथनागाश्वपत्तीनां सादिनां च महाक्षये ।। | 6-55-1a 6-55-1b |
द्रोणपुत्रेण शल्येन कृपेण च महात्मना । समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ।। | 6-55-2a 6-55-2b |
स लोकविदितानश्वान्निजघान महाबलः । द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ।। | 6-55-3a 6-55-3b |
ततः शल्यरथं तूर्णमास्थाय हतवाहनः । द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ।। | 6-55-4a 6-55-4b |
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत। सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ।। | 6-55-5a 6-55-5b |
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः । अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ।। | 6-55-6a 6-55-6b |
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा। शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ।। | 6-55-7a 6-55-7b |
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् । अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ।। | 6-55-8a 6-55-8b |
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा । विव्याध समरे राजंस्तदद्भुतमिवाभवत् ।। | 6-55-9a 6-55-9b |
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ । शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ।। | 6-55-10a 6-55-10b |
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ।। | 6-55-11a 6-55-11b |
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ।। | 6-55-12a 6-55-12b |
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ । अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ।। | 6-55-13a 6-55-13b |
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ।। | 6-55-14a 6-55-14b |
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः । आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ।। | 6-55-15a 6-55-15b |
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः । न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ।। | 6-55-16a 6-55-16b |
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः । अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ।। | 6-55-17a 6-55-17b |
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः । अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ।। | 6-55-18a 6-55-18b |
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः । दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ।। | 6-55-19a 6-55-19b |
तानि नागसहस्राणि भूमिपालशतानि च। तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ।। | 6-55-20a 6-55-20b |
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः। कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ।। | 6-55-21a 6-55-21b |
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः । प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ।। | 6-55-22a 6-55-22b |
सादिता रथनागाश्च हताश्वा रथिनो रणे। विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ।। | 6-55-23a 6-55-23b |
विरथा रथिनश्चान्ये धावमानाः समन्ततः । तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ।। | 6-55-24a 6-55-24b |
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः । अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ।। | 6-55-25a 6-55-25b |
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः । पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ।। | 6-55-26a 6-55-26b |
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते । सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ।। | 6-55-27a 6-55-27b |
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् । निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ।। | 6-55-28a 6-55-28b |
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष । प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ।। | 6-55-29a 6-55-29b |
परश्वथानां पीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप ।। | 6-55-30a 6-55-30b |
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः । छत्राणां हेमदण्डानां तोमराणां च भारत ।। | 6-55-31a 6-55-31b |
प्रतोदानां च योक्राणां कशानां चैव मारिष । राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ।। | 6-55-32a 6-55-32b |
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत । योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ।। | 6-55-33a 6-55-33b |
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते। स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ।। | 6-55-34a 6-55-34b |
तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ।। | 6-55-35a 6-55-35b |
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ।। | 6-55-36a 6-55-36b |
एष पाण्डुसुतो वीर कृष्णेन सहितो बली । तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ।। | 6-55-37a 6-55-37b |
न ह्येष समरे शक्यो विजेतुं हि कथंचन । यथास्य दृश्यते रूप कालान्तकयमोपमम् ।। | 6-55-38a 6-55-38b |
न निवर्तयितुं चापि शक्येयं महती चमूः । अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ।। | 6-55-39a 6-55-39b |
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते। चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ।। | 6-55-40a 6-55-40b |
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ । श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ।। | 6-55-41a 6-55-41b |
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् । अवहारमथो चक्रे तावकानां महारथः ।। | 6-55-42a 6-55-42b |
`ततः सरथनागाश्वा जंय प्राप्य समोपकाः। पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ।। | 6-55-43a 6-55-43b |
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः। वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ।।' | 6-55-44a 6-55-44b |
ततोऽवहारः सैन्यानां तव तेषां च भारत। अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ।। | 6-55-45a 6-55-45b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे प़ञ्चपञ्चाशोऽध्यायः ।। | |
।। इति द्वितीयदिवसयुद्धम् ।। |
6-55-8 तव पौत्रमवस्थितं इति कo घo पुस्तकपाठः ।। 6-55-37 यथा कुर्याद्धनंजयः । धनञ्जयोऽग्निः ।। 6-55-43 नरोति वतमानै ।।
भीष्मपर्व-054 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-056 |