महाभारतम्-06-भीष्मपर्व-121

विकिस्रोतः तः
← भीष्मपर्व-120 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-121
वेदव्यासः
भीष्मपर्व-122 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

तृषार्तेन भीष्मेण पानीययाचनम् ।। 1 ।। राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनंप्रति याचनम् ।। 2 ।। अर्जुनेन पर्यन्यास्त्रेण भूमिंभित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम् ।। 3 ।। भीष्मेण दुर्योधनंप्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः ।। 4 ।।

सञ्जय उवाच। 6-121-1x
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः।
पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ।।
6-121-1a
6-121-1b
तं वीरशयने वीरं शयानं कुरुसत्तम।
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ।।
6-121-2a
6-121-2b
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।
अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ।।
6-121-3a
6-121-3b
स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः ।
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ।।
6-121-4a
6-121-4b
तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः।
शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ।।
6-121-5a
6-121-5b
उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते।
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ।।
6-121-6a
6-121-6b
अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्।
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ।।
6-121-7a
6-121-7b
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता।
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ।।
6-121-8a
6-121-8b
विबभौ च नृपाणां सा गङ्गासुतमुपासताम्।
देवानामिव देवेशं पितामहमुपासताम् ।।
6-121-9a
6-121-9b
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।
अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ।।
6-121-10a
6-121-10b
शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः ।
पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ।।
6-121-11a
6-121-11b
ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः ।
भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ।।
6-121-12a
6-121-12b
उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्।
न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ।।
6-121-13a
6-121-13b
अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्।
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ।।
6-121-14a
6-121-14b
` सञ्जय उवाच। 6-121-15x
एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः।
पयः पास्यामि गोपाला गोमयं न तु गोमयम्।
गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ।।'
6-121-15a
6-121-15b
6-121-15c
एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान्।
अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ।।
6-121-16a
6-121-16b
अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ।।
6-121-17a
6-121-17b
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्।
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ।।
6-121-18a
6-121-18b
दह्यतीव शरीर मे संवृतस्य तवेषुभिः।
मर्माणि परिदूयन्ते मुखं च परिशुष्यति ।।
6-121-19a
6-121-19b
वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन।
त्वं हि शक्तो महेष्वास दातुमापो यथाविधि ।।
6-121-20a
6-121-20b
सञ्जय उवाच। 6-121-21x
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्।
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ।।
6-121-21a
6-121-21b
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ।।
6-121-22a
6-121-22b
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः।
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ।।
6-121-23a
6-121-23b
संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः।
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः।।
6-121-24a
6-121-24b
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ।
उत्पपात ततो धारा वारिणो विमला शुभा ।।
6-121-25a
6-121-25b
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ।
अतर्पयत्ततः पार्थः शीतया जलधारया ।।
6-121-26a
6-121-26b
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् ।
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ।।
6-121-27a
6-121-27b
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ।
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ।।
6-121-28a
6-121-28b
संप्रावेपन्त कुरवो गावः शीतार्दिता इव।
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ।।
6-121-29a
6-121-29b
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्।
तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ।।
6-121-30a
6-121-30b
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव ।
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ।।
6-121-31a
6-121-31b
कथितो नारदेनासि पूर्वर्षिरमितद्युते ।
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ।।
6-121-32a
6-121-32b
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ।
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ।।
6-121-33a
6-121-33b
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ।। 6-121-34a
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः।
सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।।
6-121-35a
6-121-35b
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः ।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ।।
6-121-36a
6-121-36b
न वै श्रुतं धार्तराष्ट्रेण वाक्यं
मयोच्यमानं विदुरेण चैव।
द्रोणेन रामेण जनार्दनेन
मुहुर्मुहुः सञ्जयेनापि चोक्तम् ।।
6-121-37a
6-121-37b
6-121-37c
6-121-37d
परीतबुद्धिर्हि विसंज्ञकल्पो
दुर्योधनो न च तच्छ्रद्दधाति।
स शेष्यते वै निहतश्चिराय
शास्त्रातिगो भीमबलाभिभूतः ।।
6-121-38a
6-121-38b
6-121-38c
6-121-38d
सञ्जय उवाच। 6-121-39x
एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो
दुर्योधनो दीनमना बभूव।
तमब्रविच्छान्तनवोऽभिवीक्ष्य
निबोध राजन्भव वीतमन्युः ।।
6-121-39a
6-121-39b
6-121-39c
6-121-39d
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः ।।
6-121-40a
6-121-40b
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते।
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।।
6-121-41a
6-121-41b
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः ।
धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा।।
6-121-42a
6-121-42b
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः।
कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ।।
6-121-43a
6-121-43b
अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन ।
अमानुषाणि कर्माणि यस्यैतानि महात्मनः ।।
6-121-44a
6-121-44b
तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना ।
जिष्णुना समरे राजन्संधिर्भवतु मा चिरम् ।।
6-121-45a
6-121-45b
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम।
तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ।।
6-121-46a
6-121-46b
यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः ।
नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम् ।।
6-121-47a
6-121-47b
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।
नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ।।
6-121-48a
6-121-48b
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् ।
युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम् ।।
6-121-49a
6-121-49b
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः।
यावच्चमूं महाराज नाशयन्ति न सर्वशः ।।
6-121-50a
6-121-50b
तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते।
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ।।
6-121-51a
6-121-51b
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ।
एतत्क्षममहं मन्ये तव चैव कुलस्य च ।।
6-121-52a
6-121-52b
त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः
पर्याप्तमेतद्यत्कृतं फल्गुनेन ।
भीष्मस्यान्तादस्तु वः सौहृदं च
जीवन्तु शेषाः साधु राजन्प्रसीद ।।
6-121-53a
6-121-53b
6-121-53c
6-121-53d
राज्यस्यार्दं दीयतां पाण्डवाना-
मिन्द्रप्रस्थं धरमराजोऽभियातु।
मा मित्रध्रुक्पार्थिवानां जघन्यः
पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र।।
6-121-54a
6-121-54b
6-121-54c
6-121-54d
ममावसानाच्छान्तिरस्तु प्रजानां
संगच्छन्तां पाण्डवाः प्रीतिमन्तः।
पिता पुत्रं मातुलं भागिनेयो
भ्राता चैव भ्रातरं प्रैतु राजन् ।।
6-121-55a
6-121-55b
6-121-55c
6-121-55d
न चेदेवं प्राप्तकालं वचो मे
मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।
तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे
सत्यामेतां भारतीमीरयामि ।।
6-121-56a
6-121-56b
6-121-56c
6-121-56d
सञ्जय उवाच। 6-121-57x
एतद्वाक्यं सौहृदादापगेयो
मध्ये राज्ञां भारतं श्रावयित्वा।
तूष्णीमासीच्छल्यसंतप्तमर्मा
योज्यात्मानं वेदनां संनियम्य ।।
6-121-57a
6-121-57b
6-121-57c
6-121-57d
धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् ।
नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ।।
6-121-58a
6-121-58b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
एकविंशत्यधिकशततमोऽध्यायः ।

[सम्पाद्यताम्]

6-121-4 पृधग्जनाः प्राकृता जनाः। भूतानि प्राणिनो गन्धर्वादीनि वा। तमोनुदं सूर्यम् ।। 6-121-19 परिदूयन्ते परितप्यन्ते ।। 6-121-27 विकुर्वतो विशेषेण कुर्वतः ।। 6-121-29 व्याविध्यन्भ्रामितवन्तः ।। 6-121-33 निधनं निधनहेतुः। तद्विदो देवरहस्यज्ञाः ।। 6-121-35 जगति भूलोके ।। 6-121-52 क्षेममिति पाठे हितं ।। 6-121-53 फल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु। चशब्दादेतावतां भ्रातॄणामन्तादपीति ।। 6-121-57 योज्ययोगधारणायुक्तं कृत्वा ।। 6-121-58 धर्मार्थेति श्लोकः झo पुस्त एवास्ति ।।

भीष्मपर्व-120 पुटाग्रे अल्लिखितम्। भीष्मपर्व-122