महाभारतम्-06-भीष्मपर्व-040
दिखावट
← भीष्मपर्व-039 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-040 वेदव्यासः |
भीष्मपर्व-041 → |
|
चत्वारिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 16 ।।
श्रीभगवानुवाच। | 6-40-1x |
अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। | 6-40-1a 6-40-1b |
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ।। | 6-40-2a 6-40-2b |
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ।। | 6-40-3a 6-40-3b |
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ।। | 6-40-4a 6-40-4b |
दैवी संपद्विमोक्षाय निबन्धायासुरी मता। मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ।। | 6-40-5a 6-40-5b |
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ।। | 6-40-6a 6-40-6b |
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।। | 6-40-7a 6-40-7b |
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ।। | 6-40-8a 6-40-8b |
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। | 6-40-9a 6-40-9b |
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ।। | 6-40-10a 6-40-10b |
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः ।। | 6-40-11a 6-40-11b |
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्तो कामभोगार्थमन्यायेनार्थसंचयान् ।। | 6-40-12a 6-40-12b |
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। | 6-40-13a 6-40-13b |
असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।। | 6-40-14a 6-40-14b |
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।। | 6-40-15a 6-40-15b |
अनेकचित्तविभ्रान्त मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ।। | 6-40-16a 6-40-16b |
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। | 6-40-17a 6-40-17b |
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। | 6-40-18a 6-40-18b |
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। | 6-40-19a 6-40-19b |
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।। | 6-40-20a 6-40-20b |
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ।। | 6-40-21a 6-40-21b |
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ।। | 6-40-22a 6-40-22b |
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। | 6-40-23a 6-40-23b |
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।। | 6-40-24a 6-40-24b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चत्वारिंशोऽध्यायः ।। | |
इति श्रीमन्मद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे देवासुरसंपद्विभागयोगोनाम षोडशोऽध्यायः ।। |
भीष्मपर्व-039 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-041 |