महाभारतम्-06-भीष्मपर्व-047
दिखावट
← भीष्मपर्व-046 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-047 वेदव्यासः |
भीष्मपर्व-048 → |
|
उत्तरकुमारवधः ।। 1 ।।
सञ्जय उवाच। | 6-47-1x |
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे। वर्तमाने तथा रौद्रे महावीरवरक्षये ।। | 6-47-1a 6-47-1b |
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ।। | 6-47-2a 6-47-2b |
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः । पाण्डवानामनीकानि विजगाहे महारथः ।। | 6-47-3a 6-47-3b |
चेदिकाशिकरूषेषु पञ्चालेषु च भारत । भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ।। | 6-47-4a 6-47-4b |
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् । निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ।। | 6-47-5a 6-47-5b |
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ । भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ।। | 6-47-6a 6-47-6b |
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः । संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ।। | 6-47-7a 6-47-7b |
जाम्बूनदविचित्रेण कर्णिकारेण केतुना । अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ।। | 6-47-8a 6-47-8b |
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा । भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ।। | 6-47-9a 6-47-9b |
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः । विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ।। | 6-47-10a 6-47-10b |
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ।। | 6-47-11a 6-47-11b |
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना । जहार सारथेः कायाच्छिरः सन्नतपर्वणा ।। | 6-47-12a 6-47-12b |
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ।। | 6-47-13a 6-47-13b |
जघान परमक्रुद्धो नृत्यन्निव महारथः । तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ।। | 6-47-14a 6-47-14b |
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः । सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ।। | 6-47-15a 6-47-15b |
तस्य लाघवमार्गस्थमलातसदृशप्रभम्। दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ।। | 6-47-16a 6-47-16b |
तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः । विव्याध समरे तूर्णमार्जुनिं परवीरहा ।। | 6-47-17a 6-47-17b |
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः । सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ।। | 6-47-18a 6-47-18b |
तथैव कृतवर्मा च कृपः शल्यश्च मारिष । विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ।। | 6-47-19a 6-47-19b |
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ।। | 6-47-20a 6-47-20b |
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः । ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ।। | 6-47-21a 6-47-21b |
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत । यतमानस्य समरे भीष्ममर्दयतः शरैः ।। | 6-47-22a 6-47-22b |
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् । स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ।। | 6-47-23a 6-47-23b |
ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः । चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ।। | 6-47-24a 6-47-24b |
स राजतो महास्कन्धस्तालो हेमविभूषितः । सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ।। | 6-47-25a 6-47-25b |
तं तु सौभद्रविशिखैः पातितं भरतर्षभ । दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ।। | 6-47-26a 6-47-26b |
अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च । प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ।। | 6-47-27a 6-47-27b |
ततः शरसहस्रेण सौभद्रं प्रतितामहः । अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ।। | 6-47-28a 6-47-28b |
ततो दश महेष्वासाः पाण्डवानां महारथाः । रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ।। | 6-47-29a 6-47-29b |
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः । भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ।। | 6-47-30a 6-47-30b |
तेषां जवेनापततां भीष्मः शान्तनवो रणे । पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः । | 6-47-31a 6-47-31b |
पूर्णायतविसृष्टेन क्षुरेण निशितेन च। ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ।। | 6-47-32a 6-47-32b |
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम । पपात भीमसेनस्य भीष्मेण मथितो रथात् ।। | 6-47-33a 6-47-33b |
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे। कृपमेकेन विव्याध कृतवर्माणमष्टभिः ।। | 6-47-34a 6-47-34b |
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना । अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ।। | 6-47-35a 6-47-35b |
तस्य वारणराजस्य जवेनापततो रथे । शल्यो निवारयामास वेगमप्रतिमं शरैः । | 6-47-36a 6-47-36b |
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः । पदा युगमधिष्ठाय जघान चतुरो हयान् ।। | 6-47-37a 6-47-37b |
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् । उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ।। | 6-47-38a 6-47-38b |
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः। स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ।। | 6-47-39a 6-47-39b |
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्। तस्य वारणराजस्य चिच्छेदाथ महाकरम् ।। | 6-47-40a 6-47-40b |
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः। भीममार्तस्वरं कृत्वा पपात च ममार च ।। | 6-47-41a 6-47-41b |
एतदीदृशकं कृत्वा मद्रराजो नराधिप । आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ।। | 6-47-42a 6-47-42b |
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा । कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ।। | 6-47-43a 6-47-43b |
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव । स विस्फार्य महच्चापं शक्रचापोपमं बली ।। | 6-47-44a 6-47-44b |
अभ्यधाव?ञ्जिघांसन्वै शल्यं मद्राधिपं बली। महता रथवंशेन समन्तात्परिवारितः ।। | 6-47-45a 6-47-45b |
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति। तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ।। | 6-47-46a 6-47-46b |
तावकानां रथाः सप्त समन्तात्पर्यवारयन् । मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ।। | 6-47-47a 6-47-47b |
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः । तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ।। | 6-47-48a 6-47-48b |
विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः । बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ।। | 6-47-49a 6-47-49b |
नानावर्णविचित्राणि धनूंषि च महात्मनाम् । विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ।। | 6-47-50a 6-47-50b |
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्। निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ।। | 6-47-51a 6-47-51b |
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः । धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ।। | 6-47-52a 6-47-52b |
निकृत्तान्येव तानि स्म समदृश्यन्त भारत । ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ।। | 6-47-53a 6-47-53b |
सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्। ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः । निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ।। | 6-47-54a 6-47-54b 6-47-54c |
ते निकृत्तमहाचापास्त्वरमाणा महारथाः । रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ।। | 6-47-55a 6-47-55b |
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति। ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ।। | 6-47-56a 6-47-56b |
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्। ततः समादाय शरं सर्वकायविदारणम् ।। | 6-47-57a 6-47-57b |
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति। तस्य देहे निपतितो बाणो वज्रातिगो महान् ।। | 6-47-58a 6-47-58b |
ततो रुक्मरथो राजन्सायकेन दृढाहतः । निषसाद रथोपस्थे कश्मलं चाविशन्महत् ।। | 6-47-59a 6-47-59b |
तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः । अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः ।। | 6-47-60a 6-47-60b |
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् । तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत् ।। | 6-47-61a 6-47-61b |
हयांश्च तेषां निर्भिद्य सारथींश्च परंतप । शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ।। | 6-47-62a 6-47-62b |
ततो हलहलाशब्दस्तव सैन्येषु भारत। दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ।। | 6-47-63a 6-47-63b |
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः । वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ।। | 6-47-64a 6-47-64b |
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् । ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ।। | 6-47-65a 6-47-65b |
तावकानां परेषां च व्यतिषक्तरथद्विपम् । सौभद्रे भीमसेन च सात्यकौ च महारथे ।। | 6-47-66a 6-47-66b |
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते । एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह । ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ।। | 6-47-67a 6-47-67b 6-47-67c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ।। |
6-47-7 पिशङ्कैः पिङ्गलैः ।। 6-47-8 कर्णिकारेण कर्णिकारद्रुमोपमेन ।। 6-47-9 अनुरथैः पार्ष्णिगोपादिभिः ।। 6-47-11 पूर्णयतविसृष्टेन आकर्णाकृष्टत्यक्तेन। प्रणिहितेन प्रेरितेन ।। 6-47-36 रथे रथोपरि ।। 6-47-43 वैराटिः शङ्खः ।। 6-47-47 सप्तचत्वारिंशोऽध्यायः ।।
भीष्मपर्व-046 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-048 |