महाभारतम्-06-भीष्मपर्व-103
दिखावट
← भीष्मपर्व-102 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-103 वेदव्यासः |
भीष्मपर्व-104 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-103-1x |
मध्यंदिनो महाराज संग्रामः समपद्यत। लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ।। | 6-103-1a 6-103-1b |
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् । व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः।। | 6-103-2a 6-103-2b |
संममर्द च तत्सैन्यं पिता देवव्रतस्तव। मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ।। | 6-103-3a 6-103-3b |
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा। भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ।। | 6-103-4a 6-103-4b |
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः । द्रुपदस्य च नाराचं प्रेषयामास भारत ।। | 6-103-5a 6-103-5b |
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना । चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ।। | 6-103-6a 6-103-6b |
शिखण्डी तं च विव्याध भरतानां पितामहम् । स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ।। | 6-103-7a 6-103-7b |
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् । पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।। | 6-103-8a 6-103-8b |
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः। शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ।। | 6-103-9a 6-103-9b |
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः। वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ।। | 6-103-10a 6-103-10b |
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः । द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ।। | 6-103-11a 6-103-11b |
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः । सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ।। | 6-103-12a 6-103-12b |
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः । केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ।। | 6-103-13a 6-103-13b |
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया । प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ।। | 6-103-14a 6-103-14b |
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः । प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ।। | 6-103-15a 6-103-15b |
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम् ।। | 6-103-16a 6-103-16b |
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्। तथेतरान्समासाद्य नरनागाश्वसादिनः ।। | 6-103-17a 6-103-17b |
अनयन्परलोकाय शरैः सन्नतपर्वभिः । शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ।। | 6-103-18a 6-103-18b |
रथास्तु रथिभिर्हीना हतसारथयस्तथा । विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ।। | 6-103-19a 6-103-19b |
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे। वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ।। | 6-103-20a 6-103-20b |
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः। कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ।। | 6-103-21a 6-103-21b |
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि। ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ।। | 6-103-22a 6-103-22b |
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते। विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ।। | 6-103-23a 6-103-23b |
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः । मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ।। | 6-103-24a 6-103-24b |
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष । छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ।। | 6-103-25a 6-103-25b |
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश। नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ।। | 6-103-26a 6-103-26b |
तथैव दन्तिभिर्हीना गजारोहा विशांपते। प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ।। | 6-103-27a 6-103-27b |
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् । वातायमानानद्राक्षं शतशोऽथ सहस्रशः ।। | 6-103-28a 6-103-28b |
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ।। | 6-103-29a 6-103-29b |
गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा । तथैव च रथान्राजन्प्रममर्द रणे गजः ।। | 6-103-30a 6-103-30b 6-103-30c |
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि। व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ।। | 6-103-31a 6-103-31b |
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्। `दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ।।' | 6-103-32a 6-103-32b |
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये। | 6-103-33a 6-103-33b |
अस्थिसङ्घातसंबाधा केशशैवलाद्वला । | 6-103-34a 6-103-34b |
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला । | 6-103-35a 6-103-35b |
` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।' | 6-103-36a 6-103-36b 6-103-36c |
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः । प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ।। | 6-103-37a 6-103-37b |
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्। यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ।। | 6-103-38a 6-103-38b |
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्। दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ।। | 6-103-39a 6-103-39b |
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः । कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ।। | 6-103-40a 6-103-40b |
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् । पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ।। | 6-103-41a 6-103-41b |
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः। आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ।। | 6-103-42a 6-103-42b |
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत। युध्यध्वमनहंकराः किं चिरं कुरुथेति च ।। | 6-103-43a 6-103-43b |
`इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः' ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ।। | 6-103-44a 6-103-44b 6-103-44c |
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ।। | 6-103-45a 6-103-45b |
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ।। | 6-103-46a 6-103-46b |
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ।। | 6-103-47a 6-103-47b |
।। इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ।। |
6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा। यद्वा स्त्रीमयं स्वार्थे मयट् ।। 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ।। 6-103-28 अद्राक्षमहं सञ्जयः ।। 6-103-42 आगस्कृदपराधी ।।
भीष्मपर्व-102 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-104 |