महाभारतम्-06-भीष्मपर्व-095
दिखावट
← भीष्मपर्व-094 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-095 वेदव्यासः |
भीष्मपर्व-096 → |
|
भगदत्तादियुद्धम् ।। 1 ।।
सञ्जय उवाच। | 6-95-1x |
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा। `पराजयं राक्षसेन नामृष्यत परंतपः।' गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ।। | 6-95-1a 6-95-1b 6-95-1c |
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम् ।। | 6-95-2a 6-95-2b |
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ।। | 6-95-3a 6-95-3b |
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ।। | 6-95-4a 6-95-4b |
एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परंतप ।। | 6-95-5a 6-95-5b |
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ।। | 6-95-6a 6-95-6b |
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ।। | 6-95-7a 6-95-7b |
राक्षसापशदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ।। | 6-95-8a 6-95-8b |
सञ्जय उवाच। | 6-95-9x |
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ।। | 6-95-9a 6-95-9b |
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परंतप ।। | 6-95-10a 6-95-10b |
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम। धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ।। | 6-95-11a 6-95-11b |
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ।। | 6-95-12a 6-95-12b |
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा। अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च वृषसेनश्च विकर्णश्च महारथः ।। | 6-95-13a 6-95-13b 6-95-13c |
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः। त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ।। | 6-95-14a 6-95-14b |
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ।। | 6-95-15a 6-95-15b |
भगदत्तो महीपालः पुरन्दरसमो युधि । एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ।। | 6-95-16a 6-95-16b |
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः। गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ।। | 6-95-17a 6-95-17b |
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् । राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ।। | 6-95-18a 6-95-18b |
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप । समागमश्च बहुभिः पुराऽभूदमरैः सह ।। | 6-95-19a 6-95-19b |
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे । स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ।। | 6-95-20a 6-95-20b |
सञ्जय उवाच। | 6-95-21x |
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ।। | 6-95-21a 6-95-21b |
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ।। | 6-95-22a 6-95-22b |
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ।। | 6-95-23a 6-95-23b |
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ।। | 6-95-24a 6-95-24b |
ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ।। | 6-95-25a 6-95-25b |
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च ।। | 6-95-26a 6-95-26b |
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य संनिपेतुरभीतवत् ।। | 6-95-27a 6-95-27b |
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ।। | 6-95-28a 6-95-28b |
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ।। | 6-95-29a 6-95-29b |
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ।। | 6-95-30a 6-95-30b |
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे ।। | 6-95-31a 6-95-31b |
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे । भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ।। | 6-95-32a 6-95-32b |
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ।। | 6-95-33a 6-95-33b |
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ ।। | 6-95-34a 6-95-34b |
स भीमं शरधाराभिस्ताजयामास पार्थिवः । पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ।। | 6-95-35a 6-95-35b |
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः संरब्धः शरवृष्टिभिः ।। | 6-95-36a 6-95-36b |
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति ।। | 6-95-37a 6-95-37b |
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनपुरोगमाः ।। | 6-95-38a 6-95-38b |
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ।। | 6-95-39a 6-95-39b |
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ।। | 6-95-40a 6-95-40b |
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते। उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ।। | 6-95-41a 6-95-41b |
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् । स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ।। | 6-95-42a 6-95-42b |
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्। दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ।। | 6-95-43a 6-95-43b |
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्। तमापतन्तं समरे जगं जगपतिः स च ।। | 6-95-44a 6-95-44b |
दधार सुप्रतीकोऽपि वेलेव मकरालयम् । वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ।। | 6-95-45a 6-95-45b |
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् । ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ।। | 6-95-46a 6-95-46b |
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम। तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ।। | 6-95-47a 6-95-47b |
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः। स गाढविद्धो व्यथितो नागो भरतसत्तम ।। | 6-95-48a 6-95-48b |
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः । स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ।। | 6-95-49a 6-95-49b |
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा । तस्मिन्पराजिते नागे पाण्डवानां महारथाः ।। | 6-95-50a 6-95-50b |
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे । ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ।। | 6-95-51a 6-95-51b |
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च। तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ।। | 6-95-52a 6-95-52b |
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः । भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ।। | 6-95-53a 6-95-53b |
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि। तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ।। | 6-95-54a 6-95-54b |
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः । पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ।। | 6-95-55a 6-95-55b |
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः। तेन संलोड्यमानं तु पाण्डवानां बलं महत् ।। | 6-95-56a 6-95-56b |
संचुकोच महाराज चर्मेवाग्नौ समाहितम् । भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ।। | 6-95-57a 6-95-57b |
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्। विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ।। | 6-95-58a 6-95-58b |
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव । जग्राह विमलं शूलं गिरीणामपि दारणम् ।। | 6-95-59a 6-95-59b |
नागं जिघांसुः सहसा चिक्षेप च महाबलः। स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ।। | 6-95-60a 6-95-60b |
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः । चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ।। | 6-95-61a 6-95-61b |
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् । उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ।। | 6-95-62a 6-95-62b |
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता । शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ।। | 6-95-63a 6-95-63b |
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् । चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ।। | 6-95-64a 6-95-64b |
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव । उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ।। | 6-95-65a 6-95-65b |
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ।। | 6-95-66a 6-95-66b |
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ।। | 6-95-67a 6-95-67b |
पाण्डवाश्च महाराज भीमसेनपुरोगमाः । साधुसाध्विति नादेन पृथिवीमन्वनादयन् ।। | 6-95-68a 6-95-68b |
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् । नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ।। | 6-95-69a 6-95-69b |
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् । अभिदुद्राव वेगेन पाण्डवानां महारथान् ।। | 6-95-70a 6-95-70b |
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् । भीममेकेन विव्याध राक्षसं नवभिः शरैः ।। | 6-95-71a 6-95-71b |
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः । पूर्णायतविसृष्टेन शरेणानतपर्वणा ।। | 6-95-72a 6-95-72b |
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे । पपात सहसा तस्य सशरं धनुरुत्तमम् ।। | 6-95-73a 6-95-73b |
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् । भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ।। | 6-95-74a 6-95-74b |
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः । निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ।। | 6-95-75a 6-95-75b |
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ।। | 6-95-76a 6-95-76b |
ततो भीमो महाबाहुर्विरथो रथिनां वरः । गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ।। | 6-95-77a 6-95-77b |
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् । तावकानां भयं घोरं समपद्यत भारत ।। | 6-95-78a 6-95-78b |
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः । आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ।। | 6-95-79a 6-95-79b |
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ । प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ।। | 6-95-80a 6-95-80b |
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् । त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ।। | 6-95-81a 6-95-81b |
ततो दुर्योधनो राजा त्वरमाणो महारथः । सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ।। | 6-95-82a 6-95-82b |
तामापतन्तीं सहसा कौरवाणां महाचमूम् । अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ।। | 6-95-83a 6-95-83b |
भगदत्तश्च समरे तेन नागेन भारत। विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ।। | 6-95-84a 6-95-84b |
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष। पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ।। | 6-95-85a 6-95-85b |
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ । अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ।। | 6-95-86a 6-95-86b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ।। |
6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः। ड पाठे अयमर्थश्लोको नास्ति।। 6-95-15 अनुशय इति पाठे पश्चात्तापः ।। 6-95-77 प्रचस्कन्द अवततार ।।
भीष्मपर्व-094 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-096 |