सामग्री पर जाएँ

महाभारतम्-06-भीष्मपर्व-011

विकिस्रोतः तः
← भीष्मपर्व-010 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-011
वेदव्यासः
भीष्मपर्व-012 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

शाकद्वीपवर्णनम् ।। 1 ।।

धृतराष्ट्र उवाच। 6-11-1x
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय।
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ।।
6-11-1a
6-11-1b
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् ।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ।।
6-11-2a
6-11-2b
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ।।
6-11-3a
6-11-3b
सञ्जय उवाच। 6-11-4x
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ।।
6-11-4a
6-11-4b
अष्टादश सहस्राणि योजनानि विशांपते।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ।।
6-11-5a
6-11-5b
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ।।
6-11-6a
6-11-6b
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः।
सिद्धचारणसंकीर्णः सागरः परिमण्डलः ।।
6-11-7a
6-11-7b
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ।।
6-11-8a
6-11-8b
जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप ।
विष्कम्भेण महाराज सागरोऽपि विभागशः ।।
6-11-9a
6-11-9b
क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः ।
तत्र पुण्या जनपदास्तत्र न म्रियते जनः।
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ।।
6-11-10a
6-11-10b
6-11-10c
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ।
उक्त एष महाराज किमन्यत्कथयामि ते ।।
6-11-11a
6-11-11b
धृतराष्ट्र उवाच। 6-11-12x
शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय ।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ।।
6-11-12a
6-11-12b
सञ्जय उवाच। 6-11-13x
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।।
6-11-13a
6-11-13b
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ।। 6-11-14a
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतो महाराज मलयो नाम पर्वतः ।।
6-11-15a
6-11-15b
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ।
ततः परेण कौरव्य जलधारो महागिरिः ।।
6-11-16a
6-11-16b
ततो नित्युमुपादत्ते वासवः परमं जलम्।
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ।।
6-11-17a
6-11-17b
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।।
6-11-18a
6-11-18b
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ।।
6-11-19a
6-11-19b
6-11-19c
धृतराष्ट्र उवाच। 6-11-20x
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया।
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ।।
6-11-20a
6-11-20b
सञ्जय उवाच। 6-11-21x
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन।
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ।।
6-11-21a
6-11-21b
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः 6-11-22a
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।
केसरः केसरयुतो यतो वातः प्रवर्तते ।।
6-11-23a
6-11-23b
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः।
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ।।
6-11-24a
6-11-24b
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारो महाराज सुकुमार इति स्मृतः ।।
6-11-25a
6-11-25b
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ।
केसरस्याथ मौदाकी परेण तु महापुमान् ।।
6-11-26a
6-11-26b
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च।
जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः ।।
6-11-27a
6-11-27b
शाको नाम महाराज प्रजा तस्य सदानुगा।
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ।।
6-11-28a
6-11-28b
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च।
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ।।
6-11-29a
6-11-29b
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ।।
6-11-30a
6-11-30b
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ।।
6-11-31a
6-11-31b
सुकुमारी कुमारी च शीताशी वेणिका तथा।
महानदी च कौरव्य तथा मणिजला नदी ।।
6-11-32a
6-11-32b
चक्षुर्वर्धनिका चैव नदी भरतसत्तम ।
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ।।
6-11-33a
6-11-33b
सहस्राणां शतान्येव यतो वर्षति वासवः ।
न तासां नामधेयानि परिमाणं तथैव च ।।
6-11-34a
6-11-34b
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ।
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ।।
6-11-35a
6-11-35b
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा ।
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ।।
6-11-36a
6-11-36b
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः ।
मानसाश्च महाराज वैश्यधर्मोपजीविनः ।।
6-11-37a
6-11-37b
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ।।
6-11-38a
6-11-38b
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ।।
6-11-39a
6-11-39b
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ।।
6-11-40a
6-11-40b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भूमिपर्वणि एकादशोऽध्यायः ।।

6-11-4 ग्रहं राहुम् ।। 6-11-5 पर्वताकृतित्वाज्जम्बुपर्वत इत्युच्यते ।। 6-11-6 क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः तेन समुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः। द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः। एवं तृतीयोऽशीतिसहस्रः। चतुर्थः षष्टिसहस्राधिकं लक्षम्। पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषङ्कं चत्वारिंशत्सहस्राणि। सप्तमो द्वादशलक्षाण्यशीतिसहस्राणि। एतेषां संकलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत्सहस्राणि योजनानि सप्तानां द्वीपानां समुद्राणं विस्तारः।। 6-11-18 रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणापि दिव्येन रूपेणात्रापि वर्तते एव । विधिर्मर्यादा पितामहेन कृता ।। 6-11-21 पतगवर्णं व्याचष्टे तमोरिति। मिश्रोवर्णः पतग इत्यर्थः ।। 6-11-22 यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ।।

भीष्मपर्व-010 पुटाग्रे अल्लिखितम्। भीष्मपर्व-012