महाभारतम्-06-भीष्मपर्व-073
दिखावट
← भीष्मपर्व-072 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-073 वेदव्यासः |
भीष्मपर्व-074 → |
|
युद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-73-1x |
विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् । विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः ।। | 6-73-1a 6-73-1b |
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ।। | 6-73-2a 6-73-2b |
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ।। | 6-73-3a 6-73-3b |
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ।। | 6-73-4a 6-73-4b |
सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ।। | 6-73-5a 6-73-5b |
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः ।। | 6-73-6a 6-73-6b |
ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ।। | 6-73-7a 6-73-7b |
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । गाण्डीवधन्वा संक्रुद्धः शितान्सन्नतपर्वणः ।। | 6-73-8a 6-73-8b |
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्। तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ।। | 6-73-9a 6-73-9b |
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे। न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ।। | 6-73-10a 6-73-10b |
तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः । तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ।। | 6-73-11a 6-73-11b |
तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः । यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ।। | 6-73-12a 6-73-12b |
स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः। अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ।। | 6-73-13a 6-73-13b |
ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः । ब्राह्मणश्च विशेषेण माननीयो ममेति च ।। | 6-73-14a 6-73-14b |
समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः । कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ।। | 6-73-15a 6-73-15b |
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः। युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ।। | 6-73-16a 6-73-16b |
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ।। | 6-73-17a 6-73-17b |
भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ।। | 6-73-18a 6-73-18b |
आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः। अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ।। | 6-73-19a 6-73-19b |
तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः। रराजोरसि खे सूर्यो ग्रहैरिव समावृतः।। | 6-73-20a 6-73-20b |
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित। नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ।। | 6-73-21a 6-73-21b |
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ।। | 6-73-22a 6-73-22b |
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ।। | 6-73-23a 6-73-23b |
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ।। | 6-73-24a 6-73-24b |
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ।। | 6-73-25a 6-73-25b |
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ।। | 6-73-26a 6-73-26b |
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्। चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।। | 6-73-27a 6-73-27b |
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् । ततस्ते तावका वीरा राजपुत्रा महारथाः ।। | 6-73-28a 6-73-28b |
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः। तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ।। | 6-73-29a 6-73-29b |
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव। दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ।। | 6-73-30a 6-73-30b |
अपेतशिशिरे काले समिद्धमिव पावकम् । अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ।। | 6-73-31a 6-73-31b |
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते । लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ।। | 6-73-32a 6-73-32b |
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् । विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ।। | 6-73-33a 6-73-33b |
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः। अविध्यत महाराज तदद्भुतमिवाभवत् ।। | 6-73-34a 6-73-34b |
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः । अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ।। | 6-73-35a 6-73-35b |
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा । शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति।। | 6-73-36a 6-73-36b |
तामापतन्तीं सहसा घोररूपां दुरासदाम्। अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ।। | 6-73-37a 6-73-37b |
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा। अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ।। | 6-73-38a 6-73-38b |
ततः समाकुले तस्मिन्वर्तमाने महाभये । अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ।। | 6-73-39a 6-73-39b |
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः । जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ।। | 6-73-40a 6-73-40b |
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह ।। | 6-73-41a 6-73-41b |
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् । सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ।। | 6-73-42a 6-73-42b |
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः । रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ।। | 6-73-43a 6-73-43b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ।। |
6-73-32 सात्वतीपुत्रं अभिमन्युम् ।।
भीष्मपर्व-072 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-074 |