महाभारतम्-06-भीष्मपर्व-066
दिखावट
← भीष्मपर्व-065 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-066 वेदव्यासः |
भीष्मपर्व-067 → |
|
विश्वोपाख्यानम् ।। 1 ।।
भीष्म उवाच। | 6-66-1x |
ततः स भगवान्देवो लोकानामीश्वरेश्वरः। ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ।। | 6-66-1a 6-66-1b |
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् । तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ।। | 6-66-2a 6-66-2b |
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः । कौतूहलपराः सर्वे पितामहमथाब्रुवन् ।। | 6-66-3a 6-66-3b |
कोन्वयं यो भगवता प्रणम्य विनयाद्विभो । वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ।। | 6-66-4a 6-66-4b |
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः । देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ।। | 6-66-5a 6-66-5b |
यत्तत्परं भविष्यं च भवितव्यं च यत्परम् । भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ।। | 6-66-6a 6-66-6b |
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः । | 6-66-7a 6-66-7b |
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः । अस्रुराणां वधार्थाय संभवस्व महीतले ।। | 6-66-8a 6-66-8b |
संग्रामे निहता ये ते दैत्यदानवराक्षसाः । त इमे नृषु संभूता घोररूपा महाबलाः ।। | 6-66-9a 6-66-9b |
तेषां वधार्थं भगवान्नरेण सहितो वशी । मानुषीं योनिमास्थाय चरिष्यति महीतले ।। | 6-66-10a 6-66-10b |
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । सहितो मानुषे लोके संभूतावमितद्युती ।। | 6-66-11a 6-66-11b |
अजेयौ समरे यत्तौ सहितैरमरैरपि । मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ।। | 6-66-12a 6-66-12b |
तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः । वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ।। | 6-66-13a 6-66-13b |
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः । नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ।। | 6-66-14a 6-66-14b |
एतत्परमकं गुह्यमेतत्परमकं पदम् । एतत्परमकं ब्रह्म एतत्परमकं यशः ।। | 6-66-15a 6-66-15b |
एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः । यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ।। | 6-66-16a 6-66-16b |
एतत्परमकं तेज एतत्परमकं सुखम्। एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ।। | 6-66-17a 6-66-17b |
तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक । नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ।। | 6-66-18a 6-66-18b |
यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः । हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ।। | 6-66-19a 6-66-19b |
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् । अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ।। | 6-66-20a 6-66-20b |
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्। पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ।। | 6-66-21a 6-66-21b |
किरीटकौस्तुभधरं मित्राणामभयंकरम्। अवजानन्महात्मानं घोरे तमसि मञ्जति ।। | 6-66-22a 6-66-22b |
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः । वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः । तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ।। | 6-66-23a 6-66-23b 6-66-23c |
भीष्म उवाच। | 6-66-24x |
एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा। विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ।। | 6-66-24a 6-66-24b |
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च। कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ।। | 6-66-25a 6-66-25b |
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्। वासुदेवं कथयतां समवाये पुरातनम् ।। | 6-66-26a 6-66-26b |
रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ।। | 6-66-27a 6-66-27b |
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् । वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ।। | 6-66-28a 6-66-28b |
यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ।। | 6-66-29a 6-66-29b |
वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धन्विना ।। | 6-66-30a 6-66-30b |
मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे। मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ।। | 6-66-31a 6-66-31b |
यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् । नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ।। | 6-66-32a 6-66-32b |
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ।। | 6-66-33a 6-66-33b |
यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ।। | 6-66-34a 6-66-34b |
राजन्सर्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ।। | 6-66-35a 6-66-35b |
तस्य माहात्म्ययोगेन योगेनात्ममयेन च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ।। | 6-66-36a 6-66-36b |
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ।। | 6-66-37a 6-66-37b |
स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ।। | 6-66-38a 6-66-38b |
ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ।। | 6-66-39a 6-66-39b |
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीतः संकर्षणेन वै ।। | 6-66-40a 6-66-40b |
स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च। युगेयुगे मानुषं चैव वासं पुनःपुनः सृजते वासुदेवाःक ।। | 6-66-41a 6-66-41b 6-66-41c 6-66-41d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षट्षष्टितमोऽध्यायः ।। |
6-66-39 कृतलक्षणैः स्वस्वगुणप्रख्यातैः ।। 6-66-40 सात्वताः पञ्चरात्रागमविधिना पूजकास्तदीयं सात्वतम् ।। 6-66-41 कक्ष्या काञ्ची। पुरीं द्वारकाम् ।।
भीष्मपर्व-065 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-067 |