महाभारतम्-06-भीष्मपर्व-061
दिखावट
← भीष्मपर्व-060 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-061 वेदव्यासः |
भीष्मपर्व-062 → |
|
धृष्टद्युन्मेन शलपुत्रवधः ।। 1 ।।
सञ्जय उवाच। | 6-61-1x |
द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः। पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ।। | 6-61-1a 6-61-1b |
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः। पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ।। | 6-61-2a 6-61-2b |
नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे । बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ।। | 6-61-3a 6-61-3b |
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्। दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ।। | 6-61-4a 6-61-4b |
पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते। दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ।। | 6-61-5a 6-61-5b |
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् । प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ।। | 6-61-6a 6-61-6b |
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् । व्यदृश्यत महच्चापं समरे युध्यतः परैः । | 6-61-7a 6-61-7b |
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः । ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ।। | 6-61-8a 6-61-8b |
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन । शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ।। | 6-61-9a 6-61-9b |
शल्यस्य च महावेगानस्यतः समरे शरान्। `धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः' जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ।। | 6-61-10a 6-61-10b 6-61-10c |
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः। नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ।। | 6-61-11a 6-61-11b |
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः । पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ।। | 6-61-12a 6-61-12b |
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि। सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ।। | 6-61-13a 6-61-13b |
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ । ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ।। | 6-61-14a 6-61-14b |
स वारणरथोघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ।। | 6-61-15a 6-61-15b |
`पारावताश्वः स रथमास्थाय परवीरहा' धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् । ययौ तं मद्रकानीकं केकयांश्च परंतप ।। | 6-61-16a 6-61-16b 6-61-16c |
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना। संरब्धरथनागाश्वं योत्स्यमानमशोभत ।। | 6-61-17a 6-61-17b |
सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः । त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ।। | 6-61-18a 6-61-18b |
ततः स मद्रकान्हत्वा दशैव दशभिः शरैः । पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ।। | 6-61-19a 6-61-19b |
दमनं चापि दायादं पौरवस्य महात्मनः । जघान विमलाग्नेण नाराचेन परंतपः ।। | 6-61-20a 6-61-20b |
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् । अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ।। | 6-61-21a 6-61-21b |
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ।। | 6-61-22a 6-61-22b |
अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् । अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।। | 6-61-23a 6-61-23b |
स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ । पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ।। | 6-61-24a 6-61-24b |
स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् । पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ।। | 6-61-25a 6-61-25b |
तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् । भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ।। | 6-61-26a 6-61-26b |
दीप्यमानमिवादित्यं मत्तवारणविक्रमम् । अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ।। | 6-61-27a 6-61-27b |
तस्य पाञ्चालदायादः प्रतीपमभिधावतः। शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ।। | 6-61-28a 6-61-28b |
बाणवेगमतीतस्य तथाभ्याशमुपेयुषः । त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ।। | 6-61-29a 6-61-29b |
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् । हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ।। | 6-61-30a 6-61-30b |
तं निहत्य गदाग्रेण स लेभे परमां मुदम्। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ।। | 6-61-31a 6-61-31b |
तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे । हाहाकारो महानासीत्तव सैन्यस्य मारिष ।। | 6-61-32a 6-61-32b |
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् । अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ।। | 6-61-33a 6-61-33b |
तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ । ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ।। | 6-61-34a 6-61-34b |
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ।। | 6-61-35a 6-61-35b |
तथैव पार्षतं शूरं शल्यः समितिशोभनः। आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ।। | 6-61-36a 6-61-36b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे एकषष्टितमोऽध्यायः ।। |
6-61-1 सांयमनेः शलस्य पुत्रः ।।
भीष्मपर्व-060 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-062 |