रामायणम्/अयोध्याकाण्डम्/सर्गः ९३
दिखावट
← सर्गः ९२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ९४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तया महत्या यायिन्या ध्वजिन्या वनवासिन: । अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। २.९३.१ ।। ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। २.९३.२।। स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । वृतो महत्या नादिन्या सेनया चतुरङ्गया ।। २.९३.३ ।। सागरौघनिभा सेना भरतस्य महात्मन: । महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ।। २.९३.४ ।। चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ।। २.९३.५ ।। स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।। २.९३.६ ।। यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।। २.९३.७ ।। अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ।। २.९३.८ ।। गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ।। २.९३.९ ।। मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घना: ।। २.९३.१० ।। किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ।। २.९३.११ ।। एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।। २.९३.१२ ।। कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। २.९३.१३ ।। निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। २.९३.१४ ।। खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। २.९३.१५ ।। स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। २.९३.१६ ।। एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ।। २.९३.१७ ।। अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। २.९३.१८ ।। मृगा मृगीभि: सहिता बहव: पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। २.९३.१९ ।। साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। २.९३.२० ।। भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। २.९३.२१ ।। ते समालोक्य धूमाग्रमूचुर्भरतमागता: । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। २.९३.२२ ।। अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ।। २.९३.२३ ।। तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ।। २.९३.२४ ।। यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।। २.९३.२५ ।। एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।। २.९३.२६ ।। व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।। २.९३.२७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ।। ९३ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>स्रोतः
[सम्पाद्यताम्]