रामायणम्/अयोध्याकाण्डम्/सर्गः १०६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०७ →
रामायणम्/अयोध्याकाण्डम्
एवमुक्त्वा तु विरते रामे वचनमर्थवत् । 
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । 
उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ।। २.१०६.१ ।। 

को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम । 
न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ।। २.१०६.२ ।। 

सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।। २.१०६.३ ।। 

यथा मृतस्तथा जीवन् यथा ऽसति तथा सति । 
यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ।। २.१०६.४ ।। 

परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । 
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।। २.१०६.५ ।। 

अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: । 
सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ।। २.१०६.६ ।। 

न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् । 
अविषह्यतमं दु:खमासादयितुमर्हति ।। २.१०६.७ ।। 

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । 
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।। २.१०६.८ ।। 

धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् । 
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।। २.१०६.९ ।। 

कथं दशरथाज्जात: शुद्धाभिजनकर्मण: । 
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ।। २.१०६.१० ।। 

गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च । 
तातं न परिगर्हेयं दैवतं चेति संसदि ।। २.१०६.११ ।। 

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । 
स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ।। २.१०६.१२ ।। 

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: । 
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ।। २.१०६.१३ ।। 

साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् । 
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।। २.१०६.१४ ।। 

पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ।। २.१०६.१५ ।। 

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: । 
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ।। २.१०६.१६ ।। 

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: । 
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ।। २.१०६.१७ ।। 

क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् । 
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ।। २.१०६.१८ ।। 

एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् । 
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।। २.१०६.१९ ।। 

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । 
आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ।। २.१०६.२० ।। 

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । 
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ।। २.१०६.२१ ।। 

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् । 
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ।। २.१०६.२२ ।। 

श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् । 
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ।। २.१०६.२३ ।। 

हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् । 
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ।। २.१०६.२४ ।। 

इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । 
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ।। २.१०६.२५ ।। 

इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह । 
ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ।। २.१०६.२६ ।। 

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । 
विजित्य तरसा लोकान् मरुद्भिरिव वासव: ।। २.१०६.२७ ।। 

ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् । 
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।। २.१०६.२८ ।। 

अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने । 
अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ।। २.१०६.२९ ।। 

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । 
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।। २.१०६.३० ।। 

शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि । 
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ।। २.१०६.३१ ।। 

अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: । 
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ।। २.१०६.३२ ।। 

तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: । 
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ।। २.१०६.३३ ।। 

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: । 
न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ।। २.१०६.३४ ।। 

तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: । 
तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ।। २.१०६.३५ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग: ।। १०६ ।।
</poem>