रामायणम्/अयोध्याकाण्डम्/सर्गः ४५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ४६ →
रामायणम्/अयोध्याकाण्डम्

अनुरक्ता महात्मानं रामं सत्यपराक्रमम्
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः १
निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि
नैवं ते संन्यवर्तन्त रामस्यानुगता रथम् २
अयोध्यानिलयानां हि पुरुषाणां महायशाः
वभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ३
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तिदा
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ४
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ५
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ६
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः
करिष्यति यथावद्वः प्रियाणि च हितानि च ७
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः
अनुरूपं स वो भर्ता भविष्यति भयापहः ८
स हि राजगुणैर्युक्तो युवराजः समीक्षितः
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ९
न च तप्येद्यथा चासौ वनवासं गते मयि
महाराजस्तथा कार्यो मम प्रियचिकीर्षया १०
यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत्
तथा तथा प्रकृतयो रामं पतिमकामयन् ११
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम् १२
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा
वयःप्रकम्पशिरसो दूरादूचुरिदं वचः १३
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् १४
एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान्
अवेक्ष्य सहसा रामो रथादवततार ह १५
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः
संनिकृष्टपदन्यासो रामो वनपरायणः १६
द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः १७
गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः
ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः १८
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति
द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी १९
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः
पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये २०
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः २१
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी
त्वत्कृते सा कृता वत्स वनवासानुसारिणी २२
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः २३
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् २४
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः
शिरोभिर्निभृताचार महीपतनपांशुलैः २५
बहूनां वितता यज्ञा द्विजानां य इहागताः
तेषां समाप्तिरायत्ता तव वत्स निवर्तने २६
भक्तिमन्ति हि भूतानि जंगमाजंगमानि च
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय २७
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिभिः
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः २८
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् २९
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने
ददृशे तमसा तत्र वारयन्तीव राघवम् ३०
इति श्रीरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ४०

अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥

निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥

अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥

अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥

या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥

स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥

ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।
अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥

स हि राज गुणैः युक्तः युव राजः समीक्षितः ।
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥

न च तप्येद् यथा च असौ वन वासम् गते मयि ।
महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥

यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥

ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥

वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥

कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥

धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥

एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।
अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥

पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।
सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥

द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥

गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥

वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।
पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥

अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥

या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥

न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥

याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।
शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥

बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥

भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥

अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥

निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।
ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥

ततः सुमन्त्रोऽपि रथाद्विमुच्य ।
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।
पीतोदकाम्स्तोयपरिप्लुताङ्गा ।
नचारयद्वै तमसाविदूरे ॥२-४५-३३॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥