रामायणम्/अयोध्याकाण्डम्/सर्गः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ४८ →
रामायणम्/अयोध्याकाण्डम्
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥

शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥

ते  विषादार्तवदना रहितास्तेन धिमता ।
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥

धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥

कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥

यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥

इहैव निधनम् यामो महाप्रस्थानमेव वा ।
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥

किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥

सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥

निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥

ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥

रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।
किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥

ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥

आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।
आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥

एषा रामेण नगरी रहिता नातिशोभते ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥

चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥

ते तानि वेश्मानि महाधनानि ।
दुःखेन दुःखोपहता विशन्तः ।
नैव प्रजज्ञुः स्वजनम् जनम् वा ।
निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥