रामायणम्/अयोध्याकाण्डम्/सर्गः ८५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ८४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८६ →
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥

एवम् उक्तः तु भरतः निषाद
अधिपतिम् गुहम् ।
प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥

ऊर्जितः खलु ते कामः कृतः
मम गुरोह् सखे ।
यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥

इति उक्त्वा तु महा तेजा गुहम्
वचनम् उत्तमम् ।
अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥

कतरेण गमिष्यामि भरद्वाज
आश्रमम् गुह ।
गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥

तस्य तत् वचनम् श्रुत्वा राज
पुत्रस्य धीमतः ।
अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥

दाशाः तु अनुगमिष्यन्ति
धन्विनः सुसमाहिताः ।
अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥

कच्चिन् न दुष्टः व्रजसि रामस्य
अक्लिष्ट कर्मणः ।
इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥

तम् एवम् अभिभाषन्तम्
आकाशैव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥

मा भूत् स कालो यत् कष्टम् न
माम् शन्कितुम् अर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥

तम् निवर्तयितुम् यामि काकुत्स्थम्
वन वासिनम् ।
बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥

स तु सम्हृष्ट वदनः श्रुत्वा
भरत भाषितम् ।
पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥

धन्यः त्वम् न त्वया तुल्यम्
पश्यामि जगती तले ।
अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥

शाश्वती खलु ते कीर्तिर्
लोकान् अनुचरिष्यति ।
यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥

एवम् सम्भाषमाणस्य गुहस्य
भरतम् तदा ।
बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥

सम्निवेश्य स ताम् सेनाम् गुहेन
परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥

राम चिन्तामयः शोको भरतस्य
महात्मनः ।
उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥

अन्तर् दाहेन दहनः सम्तापयति
राघवम् ।
वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥

प्रस्रुतः सर्व गात्रेभ्यः स्वेदः
शोक अग्नि सम्भवः ।
यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥

ध्यान निर्दर शैलेन
विनिह्श्वसित धातुना ।
दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।
आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥

विनिश्श्वसन्वै
भृशदुर्मनास्ततः ।
प्रमूढसम्ज्ञः परमापदम् गतः ।
शमम् न लेभे हृदयज्वरार्दितो ।
नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥

गुहेन सार्धम् भरतः
समागतः ।
महा अनुभावः सजनः समाहितः ।
सुदुर्मनाः तम् भरतम् तदा पुनर् ।
गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥