रामायणम्/अयोध्याकाण्डम्/सर्गः १००
दिखावट
← सर्गः ९९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १०१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।। २.१००.१ ।। कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं राम: परिजग्राह बाहुना ।। २.१००.२ ।। आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ।। २.१००.३ ।। क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ।। २.१००.४ ।। चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ।। २.१००.५ ।। कच्चिद्धारयते तात राजा यत्त्वमिहागत: । कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ।। २.१००.६ ।। कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।। २.१००.७ ।। कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ।। २.१००.८ ।। कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: । राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ।। २.१००.९ ।। स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ।। २.१००.१० ।। सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ।। २.१००.११ ।। कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ।। २.१००.१२ ।। कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: । हुतं च होष्यमाणं च काले वेदयते सदा ।। २.१००.१३ ।। कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ।। २.१००.१४ ।। इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ।। २.१००.१५ ।। कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ।। २.१००.१६ ।। मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ।। २.१००.१७ ।। कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।। २.१००.१८ ।। कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।। २.१००.१९ ।। कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ।। २.१००.२० ।। कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: । विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ।। २.१००.२१ ।। कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: । त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ।। २.१००.२२ ।। कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ।। २.१००.२३ ।। सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: । अथवाप्ययुतान्येव नास्ति तेषु सहायता ।। २.१००.२४ ।। एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: । राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ।। २.१००.२५ ।। कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: । जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ।। २.१००.२६ ।। अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ।। २.१००.२७ ।। कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ।। २.१००.२८ ।। कच्चित्त्वां नावजानन्ति याजका: पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ।। २.१००.२९ ।। उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ।। २.१००.३० ।। कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: । कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ।। २.१००.३१ ।। बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ।। २.१००.३२ ।। कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ।। २.१००.३३ ।। कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: । भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ।। २.१००.३४ ।। कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ।। २.१००.३५ ।। कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ।। २.१००.३६ ।। कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ।। २.१००.३७ ।। कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ।। २.१००.३८ ।। कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बाला: पण्डितमानिन: ।। २.१००.३९ ।। धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ।। २.१००.४० ।। वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: । सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ।। २.१००.४१ ।। ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ।। २.१००.४२ ।। प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ।। २.१००.४३ ।। कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: । देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ।। २.१००.४४ ।। प्रहृष्टनरनारीक: समाजोत्सवशोभित: । सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ।। २.१००.४५ ।। अदेवमातृको रम्य: श्वापदै: परिवर्जित: । परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ।। २.१००.४६ ।। विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: । कच्चिज्जनपद: स्फीत: सुखं वसति राघव ।। २.१००.४७ ।। कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: । वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ।। २.१००.४८ ।। तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ।। २.१००.४९ ।। कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: । कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ।। २.१००.५० ।। कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ।। २.१००.५१ ।। कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ।। २.१००.५२ ।। कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ।। २.१००.५३ ।। कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ।। २.१००.५४ ।। आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ।। २.१००.५५ ।। देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ।। २.१००.५६ ।। कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ।। २.१००.५७ ।। गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ।। २.१००.५८ ।। व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ।। २.१००.५९ ।। यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ।। २.१००.६० ।। कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ।। २.१००.६१ ।। कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ।। २.१००.६२ ।। कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ।। २.१००.६३ ।। कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ।। २.१००.६४ ।। कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: । आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ।। २.१००.६५ ।। नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।। २.१००.६६ ।। एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।। २.१००.६७ ।। मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: । कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ।। २.१००.६८ ।। दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: । अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ।। २.१००.६९ ।। इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ।। २.१००.७० ।। यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ।। २.१००.७१ ।। मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ।। २.१००.७२ ।। कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: । कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ।। २.१००.७३ ।। कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ।। २.१००.७४ ।। यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ।। २.१००.७५ ।। कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ।। २.१००.७६ ।। राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् । अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ।। २.१००.७७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग: ।। १०० ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
[सम्पाद्यताम्]