सामग्री पर जाएँ

रामायणम्/अयोध्याकाण्डम्/सर्गः ५०

विकिस्रोतः तः
← सर्गः ४९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५१ →
पञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।
अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥

आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥

अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।
चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥

तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।
विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥

तथा विलपताम् तेषामतृप्तानाम् च राघवः ।
अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥

मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।
राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥

तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।
ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥

आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।
कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥

देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।
देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥

जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥

क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥

देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥

हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।
सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥

क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥

व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।

प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।
शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥

विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।
ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।
आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥

ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।
सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥

अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।
सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥

द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥

लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।
उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥

रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।
रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥

सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।
वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥

तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।
निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥

स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।
वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥

ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।
सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।
यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।

ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।
अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥

स्वागतम् ते महा बाहो तव इयम् अखिला मही ।
वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।
शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।
पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥

भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।
दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।

यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।
सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥

कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।
विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।
एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥

एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।
एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥

अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।
गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥

ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।
जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥

गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।
अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥

तथा शयानस्य ततः अस्य धीमतः ।
यशस्विनो दाशरथेर् महात्मनः ।
अदृष्ट दुह्खस्य सुख उचितस्य सा ।
तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।