रामायणम्/अयोध्याकाण्डम्/सर्गः ३४
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततःकमलपत्राक्षः श्यामो निरुपमो महान् । उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥ स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः । प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥ आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् । रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥ तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा। भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥ अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः । ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥ स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः । सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥ गमिष्यति महा अरण्यम् तम् पश्य जगती पते । वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥ स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः । आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥ सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः । दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥ सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् । आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥ एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया । प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥ अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः । कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥ आगतेषु च दारेषु समवेक्ष्य मही पतिः । उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥ स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा । जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥ स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् । उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥ सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः । तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥ तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः । विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥ स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि । हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥ तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ । पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥ अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् । उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥ आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः । प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥ लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् । कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥ अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद । लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥ प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः । उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥ अहम् राघव कैकेय्या वर दानेन मोहितः । अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥ एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः । प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥ भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः । अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥ रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः । कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥ श्रेयसे वृद्धये तात पुनर् आगमनाय च । गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव । विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥ अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा । मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥ मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥ दुष्करम् क्रियते पुत्र सर्वथा राघव तया । मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥ न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव । छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥ पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥ न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम । अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥ अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् । लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥ प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति । अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥ इयम् सराष्ट्रा सजना धन धान्य समाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति । यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥ दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव । अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥ चतुर्दश समा वत्स्ये वने वनचरैः सह । मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥ न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् । यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥ अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः । न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥ न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् । त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥ त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ । प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥ न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो । स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥ अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव । मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥ मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥ पिता हि दैवतम् तात देवतानामपि स्मृतम् । तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥ चतुर्धशसु वर्षेषु गतेषु नरसत्तम । पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥ येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः । स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥ पुरम् च राष्ट्रम् च मही च केवला । मया निसृष्टा भरताय दीयताम् । अहम् निदेशम् भवतः अनुपालयन् । वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥ मया निसृष्टाम् भरतः महीम् इमाम् । सशैल खण्डाम् सपुराम् सकाननाम् । शिवाम् सुसीमाम् अनुशास्तु केवलम् । त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥ न मे तथा पार्थिव धीयते मनो । महत्सु कामेषु न च आत्मनः प्रिये । यथा निदेशे तव शिष्ट सम्मते । व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥ तत् अद्य न एव अनघ राज्यम् अव्ययम् । न सर्व कामान् न सुखम् न मैथिलीम् । न जीवितम् त्वाम् अनृतेन योजयन् । वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥ फलानि मूलानि च भक्षयन् वने । गिरीमः च पश्यन् सरितः सराम्सि च । वनम् प्रविश्य एव विचित्र पादपम् । सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥ एवम् स राजा व्यसनाभिपन्नः । शोकेन दुःखेन च ताम्यमानः । आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो । मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥ देव्यस्ततः सम्रुरुदुः समेता । स्ताम् वर्जयित्वा नरदेवपत्नीम् । रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् । हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥