रामायणम्/अयोध्याकाण्डम्/सर्गः ५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ५० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५२ →
एकपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥

तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।
गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥

उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।
गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥

न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।
ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥

अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥

न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥

लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।
न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥

कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥

यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥

कौसल्या चैव राजा च तथैव जननी मम ।
न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥

अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।
राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥

कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।
शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।
अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥

अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥

अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।
निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥

परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।
तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥

तथा हि सत्यम् ब्रुवति प्रजा हिते ।
नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।
मुमोच बाष्पम् व्यसन अभिपीडितः ।
ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।