रामायणम्/अयोध्याकाण्डम्/सर्गः २६
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः २५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् । कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥ विराजयन् राज सुतः राज मार्गम् नरैः वृतम् । हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥ वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी । तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥ देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना । अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥ प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् । प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥ अथ सीता समुत्पत्य वेपमाना च तम् पतिम् । अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥ ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् । तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥ विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् । आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥ अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव । प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥ न ते शत शलाकेन जल फेन निभेन च । आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥ व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् । चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥ वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ । स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥ न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः । मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥ न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः । अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥ चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः । मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥ न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः । प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥ न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन । भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥ अभिषेको यदा सज्जः किम् इदानीम् इदम् तव । अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥ इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः । सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥ कुले महति सम्भूते धर्मज्ञे धर्म चारिणि । शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥ राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे । कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥ तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥ चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया । पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥ सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् । भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥ ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् । तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥ न अपि त्वम् तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥ तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥ अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् । वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥ याते च मयि कल्याणि वनम् मुनि निषेवितम् । व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥ काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि । वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥ माता च मम कौसल्या वृद्धा सम्ताप कर्शिता । धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥ वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः । स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥ भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः । त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥ विप्रियम् न च कर्तव्यम् भरतस्य कदाचन । स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥ आराधिता हि शीलेन प्रयत्नैः च उपसेविताः । राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥ औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः । समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥ सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी । भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥ अहम् गमिष्यामि महा वनम् प्रिये । त्वया हि वस्तव्यम् इह एव भामिनि । यथा व्यलीकम् कुरुषे न कस्यचित् । तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥ ॥ इति श्रि मद्रामयणे अयोध्यकान्डे षड्विम्शः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥ ]